________________
.: हैमनूतनलघुप्रक्रिया ___ मासवर्णभ्रात्रनुपूर्वम् ।।३।१११६१॥ मासवाचि वर्णवाचि भ्रातृवाचि च शब्दरूपं द्वन्द्व समासे अनुपूर्व पूर्व निपतति । फाल्गुनचैत्रौ, चैत्रवैशाखौ-फाल्गुनचैत्रवैशाखाः। ब्राह्मणक्षत्रियौ, ब्राह्मणक्षत्रियविट्शूद्राः। बलदेववासुदेवौ, युधिष्ठिरभीमार्जुनाः।
भर्नु तुल्यस्वरम् ३।१।१६२॥ तुल्यसंख्यस्वरं नक्षत्रवाचि ऋतुवाचि च शब्दरूपं द्वन्द्वसमासे अनुपूर्व पूर्व निपतति । कृत्तिकारोहिण्यः, - · अश्विनीभरणीकृत्तिकाः। हेमन्तशिशिरौ, हेमन्तशिशिरवसन्ताः-तुल्यस्वरमिति किं ? ग्रीष्मेवसन्तौ । ... स्त्रियाः पुंसो द्वन्द्वाच्च ।७।३।९६॥ स्त्रीशब्दात् परोय: पुंस् शब्दस्तदन्ताद् द्वन्द्वात्कर्मधारयाच अत्समासान्तो भवति। स्त्री च पुमांश्वाऽनयोः समाहारः स्त्रीपुंसम् । इतरेतरयोगे-स्त्रीपुंसौ स्त्रीपुंसाः । स्त्री चासौ पुमांश्च स्त्रीपुंसः शिखण्डी।
ऋक्सामर्यजुषधेन्वनडुहवाङमनसाहोरात्ररात्रिदिवनक्तंदिवाहर्दिवोर्वष्ठीवपदष्ठीवाक्षिध्रुवदारंगवम् ७३९७॥ ऋकसामादयो द्वन्द्वा अप्रत्ययान्ता निषात्यन्ते। ऋक् च साम-च ऋवसामे । ऋक् च यजुश्च, ऋग्यजु.१-अल्पस्वरम् । २-अय॑त्वात्प्राक् । ३-अल्पस्वरप्राक् । नस्तद्धित इत्यन्त्य
स्वरादिलोपः । पदत्वाचनः कगम् धुटस्तृतीयोऽघोषे प्रथमः । ४-चज इति कः, धुट इति तृतीयः। .. .........