SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया: गौणत्वमिति समकक्षता नास्ति, क्रमश्चाऽप्यस्ति । अतोऽत्राऽन्याचयश्वार्थः । यत्र द्रव्याणामेव परस्परापेक्षाणां समूहो विवक्षितावयवसंख्याकः स इतरेतरयोगः । यथा चैत्रश्च मैत्रश्च घटं कुर्वाते । चैत्रमैत्रौ घटं कुर्वाते । अत्र समूहस्यैव घटकरणतात्पर्यमिति द्वयोः सहकारो गम्यते इति परस्परापेक्षा । अवयवसंख्याविवक्षणाच्च द्विवचनम् । धवखदिरौ छिन्धीत्यादावपि समूहच्छेदन एव तात्पर्य क्रमाविवक्षणादिति समूहघटकत्वेन परस्परापेक्षा, अवयवसंख्याविवक्षणाच द्विवचनम् । एवमन्यत्राऽप्यूह्यम् । स एव समूहप्रधानोऽविवक्षितावयवसंख्यः समाहारः । यथाधवखदिरपलाश तिष्ठति । समूहस्यैकत्वादेकवचनम् । इतरेतरयोगे तु धवश्च खदिरश्च पलाशश्च तिष्ठन्ति । समासे चकारो न प्रयुज्यते, तदर्थस्य समासेनाभिधानात् , उक्तार्थानामप्रयोग इति न्यायात् । अत्रेदं बोध्यम्-समुचयाऽन्याचययोः समासो न भवति, सहोक्त्यभावात् । अन्यत्र भवति तत्सत्वात् । सहोक्तिश्च वर्तिपदैः प्रत्येकं पदार्थानां युगपदभिधानम् । धवखदिरावित्यत्र. धवोऽपि १-चैत्र सि मैत्र सि । अत्र समासे स्यादिलुक् । अवयवद्वित्वाद् द्विवचनम् । पूर्वप्रयोगस्तु समस्वरत्वाद् यथेष्टम् । २-३वश्च खदि.. रश्च पलाशश्चैषां समाहार. इति लौकिकविग्रहः । समाहारद्वन्द्वस्यैकत्वं : क्लीबत्वं च । पूर्वप्रयोगश्चात्र यथाऽल्पस्वरम् । चैत्रश्च मैत्रश्चाऽनयोरितरेतरयोगक्षेत्रमैत्रौ मैत्रचैत्रौ वा ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy