________________
हैमनूतनलघुप्रक्रिया सान्तो विहितस्ततः प्राक् । शोभनो राजा सुराजा, अतिशयितः सखा अतिसखा । पूजाग्रहणं किम् ? अतिक्रान्तो राजानमतिराज इत्यादि । प्राकटादिति किम् ? शोभने अक्षिणी यस्य स्वक्षः ॥
॥इति तत्पुरुषसमास प्रक्रिया ॥
॥ अथ द्वन्द्व समास प्रक्रिया ॥ चार्थे इन्द्रः सहोती ।३।१।११७॥ सहोक्तिविषये चार्थे वर्तमानं नाम नाम्ना सह समस्यते, स समासो द्वन्द्वसंज्ञो भवति । चार्थाश्चत्वारः समुच्चयोऽन्वाचय इतरेतरयोगः समाहारश्चेति । तत्र द्विप्रभृतीनां क्रियाकारकद्रव्यगुणानां समकक्षाणामविवक्षितक्रमयोगपद्यानामेकत्राऽऽत्मरूपभेदेनाऽन्वयः समुच्चयः । यथा-चैत्रः पचति पठति च । पचनपठनक्रिययोः क्रियात्वेन साम्येऽपि आत्मरूपभेदेन चैत्रेऽन्वेति पचनरूपेण पठनरूपेण च, न तु क्रियारूपेगैकरूपेण, ततश्चैत्रः करोतीत्यर्थाऽनभिधानात् । गौणमुख्यभावेनाऽविवक्षणाञ्च समकक्षता, क्रमयोगपद्यं च न विवक्षितम् । एवमन्यत्राऽप्यूह्यम् । समुच्चयस्थल एवाऽन्यतरस्याऽनुषङ्गिकत्वादिना गौणत्वेऽन्वाचयः। . . यथा-बटो भिक्षामट गां चानय । अत्र गवानयनस्यानुषङ्गिकत्वाद् ७-प्रादिसमासः, राजन्सखेरित्य', नोऽपदस्य । ८-सक्थ्यक्ष्ण इति टः, अवर्णेवर्णस्य । सु सि अक्षि औ।