________________
हैमनूतनलघुप्रक्रिया निसश्च श्रेयसः।७।३।१२२॥ निम् शब्दात् श्वस् शब्दाच्च परो यः श्रेयशब्दस्तदन्तात्तत्पुरुषादत समासान्तो भवति । निश्चितं श्रेयो निःश्रेयसम् , शोभनं श्रेयः श्वःश्रेयसम् ॥
नत्रन्ययात्संख्याया डः।७।३।१२३॥ नमोऽव्ययाच परो यः संख्याशब्दस्तदन्तात्तत्पुरुषाद् डं: समासान्तो भवति । न दश अदेशाः, न्यूना दश इत्यर्थः। एवमनवादयः। त्रिंशतो निर्गतानि निस्त्रिंशानि वर्षाणि ॥
न किमः क्षेपे ।७।३।७०॥ निन्दायां यः किंशब्दस्तत्पूर्वपदात् समासात्प्राप्तः समासान्तो न भवति । कुत्सितो राजा किंराजा, यो न रक्षति । एवं सिखा योऽभिद्रुह्यति, किंगौर्यों न वहति, कुत्सिते अक्षिणी यस्य 'किमक्षि द्विज इत्यादि । .. __नञ् तत्पुरुषात् ७४३७१॥ नञ्तत्पुरुषात्समासान्तो न भवति । अराजा, असखा । - पूजा स्वतेः प्राक्टात् १७॥३॥७२॥ पूजार्थकस्वतिपूर्वपदात्समासात्समासान्तो न भवति, बहुव्रीहेर्यः टसमा१-मयूरख्यसकादित्वात्समासः । २-डित्यन्तस्वरादिलोपः । ३-राजन् सखेरित्यस्य निषेधः, नौ मुम इत्यनुस्वारः, किं क्षेप इति समासः । ४-गोस्तत्पुरुषादित्यस्य निषेधः । ५-सक्थ्यक्ष्णोरित्यस्य निषेधः । ६-राजनसखेः, नात् ।