SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुमक्रिया द्वयर्थः खदिरोऽषि द्वयर्थः। धवश्च खदिरश्चेति वाक्ये चकार एनमेवार्थमाह। एवं समाहारेऽपि बोध्यम् । समुच्चयान्वाचयस्थले तु सम्रहान्वयाविवक्षणान सहोक्तिरिति बोध्यम् । एकश्च विंशतिश्चैकविंशतिरित्यादिसंख्याद्वन्द्वे इतरेतरयोगे समाहारे वा समूहैकत्वसंख्यैव विवक्ष्यते । शब्दशक्तिस्वाभाव्यादित्येकवचनम् , आशताद् द्वन्द्व इति लिङ्गानुशासनाच्च स्त्रीलिङ्गता बोध्या। लघ्यक्षरेत्यादि सूत्रे एकग्रहणाद् बहूनामपि द्वन्द्वः। चैत्रश्च मैत्रश्च दत्तश्व चैत्रमैत्रदत्ता गच्छन्ति । वक्रश्च कुटिलश्च वक्रौ, देवश्च देवश्च देवौ, एवंविधेषु समानार्थरूपादिस्थलेषु द्वन्द्वस्या-- ऽपवाद एकशेष एव न द्वन्द्वः । यद्यपि द्वन्द्वे कृतेऽप्ये कशेषः संभवति, तथापि 'सत्यपि सम्भवे बाधनं भवतीति वचनाद द्वन्द्वो बाध्यत एव । अन्यथा वाक् च वाक् च वाचावित्यादौ परत्वात् समासान्तप्रत्यये वैरूप्यादेकशेषो न स्यादिति ध्येयम् । इतरेतरयोगद्वन्द्वतत्पुरुषयोः परपदलिङ्गमित्युत्सर्ग इत्यनुसन्धेयम् । विरोधिनामद्रव्याणां नवा इन्द्रः स्वैः ।३।१।१३०॥ विरोध्यर्थवाचिनां द्रव्यमप्रतिपादयतां शब्दानां द्वन्द्वो एकार्थों वा भवति स चेद द्वन्द्वः सजातीयैरारभ्यते । द्रव्यमिह गुणाद्याश्रयः । सुखं च दुःखं च मुखदुःखम् , १-लध्वक्षरत्वात्पूर्वनिपातः। -
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy