________________
५३६
हैमनूतनलघुप्रक्रिया षोडश । एवं द्वादशादयः। दध्युपसिक्तो दधिसंस्कृतो दधिमिश्रो वौदनो दध्योदनः । सर्वेषां श्वेततरः सर्वश्वेतः, सर्वेषां महत्तरः सर्वमहान् । एवमविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु । ' जातमहदवृद्धादुक्ष्णः कर्मधारयात् ।।३।९५॥ जात-महद्-वृद्ध-इत्येतेभ्यः परो य उक्षन् शब्दस्तदन्ताकर्मधारयात् अत् समासान्तो भवति । जातश्चासावुक्षा च जातोक्षः । एवं मैहोक्षः, वृद्धोक्षः ।
द्विगोरनहोट ७।३।९९॥ अन्नन्तादहन्शब्दान्ताच द्विगोः समाहारे वाच्ये अट् समासान्तो भवति । शतानां राज्ञां समाहारः शैतराजम् , शतराजी । अन्नन्तान्त आवन्ता. न्तश्च द्विगुर्वा क्लीवे । पञ्चानामजानां समाहारः पञ्चाजी, पश्चार्जम् । पात्राधन्तद्विगुस्तु नित्यं क्लीबे पश्चपात्रम् , चतुर्युगम् त्रिभुवनम् त्रिसन्ध्यमिति नित्यं क्लीबे । अकारान्तोत्तरपदो द्विगुरन्यः स्त्रियाम् । पञ्चानामजानां समाहारः पश्चाजी । पञ्चब्राह्मणीत्यादि । प्रकृतमनुत्रियते । द्वयोरहोः समाहारो द्वैथहः । रात्राहाहान्तस्तत्पुरुषः पुंसि'
गोस्तत्पुरुषात् ।७।३।१०५॥ गोशब्दान्तात्तत्पुरुषादर - ८-तरलोपः । .......
-अंति नोऽपदस्य तद्धिते । २-जातीयैकार्थ इत्यात्वम् । ३-नोऽपदस्य । . स्त्रियां द्विगोरिति ङी । ४-पञ्चन् आम् अजा आम् । ५-गोश्चान्त .. - इति ह्रस्वः । ६-अत्राऽजशब्दः पुंसि; द्विगोरिति डीः । ७-नोऽपदस्य ।