________________
हैमलघुनूतनप्रक्रिया
५३७
समासान्तो भवति, न तु तद्धितलुकि । राज्ञो गौः राजगवः राजगवी, पुमांश्चासौ गौश्च पुंगवः, गामतिक्रान्तोऽतिर्गवः, पञ्चानां गवां समाहारः पञ्चवगैवम् । पश्च गावो धनं यस्य पञ्चवधनः ।
राजन् सखेः | ७|३|१०६ || राजन् सखि इत्येतदन्तातत्पुरुषाट् समासान्तो भवति । देवानां राजा देवराजः । महासौ राजा च महारोंजः । राज्ञः सखा राजसैंखः, महाँसौ सखा च महासंखः, अतिक्रान्तः सखायमतिसखः पञ्चानां सखीनां समाहारः पञ्चसखम्, पञ्च सखायः प्रिया यस्य पञ्चखप्रियः । राजनिति नान्तनिर्देशादनकारान्तान्न भवति । महती चासौ राज्ञी च महाराज्ञी ||
अह्नः ।७।३।११६ || अहन् शब्दान्तात्तत्पुरुषादद्द समासान्तो भवति । परमाहः । जन्माहः, पुण्याहम् ॥
८ - अट्यवादेशे दित्त्वात् स्त्रियां ङीः ९- नाम सिदिति पदत्वात् पदस्येति संयोगान्तलोपः, तौ मुम इत्यनुस्वारः । १० - गोश्चान्त इति ह्रस्वः, अयस्वयम्भुव इत्यव् । ११ - उत्तरपदस्यादन्तत्वाभावान्न स्त्रीत्वम् । १२ - उत्तरपदे परे तत्पुरुष इत्यट् । १३ - जातीयैकार्थ इत्याः, नोऽपदस्य । १४ - अट्यवर्णेवर्णस्येतीकारलोपः ।
१ - जातीयैकार्थ इत्याः । २ समाहारे द्विगो र्द्वन्द्वस्य च क्लीवता । ३ - उत्तरपदे परे तत्पुरुष इत्यट् । ४ - पुंवत्कर्मधारये । जातीयैकार्थ इत्याः । ५- सन्महदिति समासः, अटि नोऽपदस्य । ६ - जन्मनोऽहः, स्थानिवद्भावेन पदत्वान्नलोपः । ७- पुण्यमहः, विशेषणसमासः ।