________________
हैमनूतनलघुप्रक्रिया यश्च सप्तर्षयः। समुदाये प्रवृत्ताः शब्दा अवयवेऽपि वर्तन्ते । तेन एकः सप्तर्षिरुदित इत्याद्यप्यदुष्टम् । द्वयोर्मात्रोरपत्यं द्वैमातुरः। पञ्च गावो धनमस्य पश्चगवधनः । तत्पुरुषसंज्ञाऽपीत्यत् समासान्तः। पञ्चानां पूलानां समाहारः पञ्चपूली । अकारान्तोत्तरपदो द्विगुः, पात्राद्यन्तवर्जितः स्त्रियामिष्टः। पञ्चानां पात्राणां समाहारः पञ्चपात्रम् । अजादित्वात् । त्रिफला ॥
मयूरव्यंसकेत्यादयः।३।११११६॥ मयूरव्यसंकादयस्तत्पुरुषसमासा निपात्यन्ते । व्यसकैश्वासौ मयूरश्च मयूरव्यंसकः। विशेष्यस्य प्राक्प्रयोगो निपातनात् । एवमन्यत्राऽप्यलाक्षणिकं सर्व निपातनाद् बोध्यम् । शाकप्रियः, शाकभोजी, शाकप्रधानो पार्थिवः शाकपार्थिवः । अत्रोत्तरपदस्य प्रियादेलोपः । एवमन्यत्र ॥
एकादशषोडश षोडन् षोढा षड्ढा ।३।२।९१॥ एकादयः शब्दा दशादिषूत्तरपदादिषु कृतदीर्घत्वादयो निपात्यन्ते । एकैनाधिका एकाधिकाश्च ते दश च एकादर्श । २-स्यादेः स्थानिवद्भावेन पदत्वे नाम्नो न इति नलोपोऽवर्णस्येत्यर् ।
३-संख्यासंमद्रादित्यण् मातुरादेशश्च । आदिस्वरवृद्धिः । ४-नाम सिदिति पदत्वान्नलोपः । गोरित्यट्यवादेशः । ५-द्वियोः समाहारादिति ङो । अस्येत्यलुक् । ६-धूतः । सरहितो वा । -मयूर व्यंसकादित्वात्समासः । अधिकादियन्दुलोपः । बहुदा दश । उत्तरशब्दले.पः षषोऽन्त्यस्योत्वमुत्तरपदादेडकारः । षड् दन्ता अस्य षोडन् । दन्तशब्दस्य दत्रादेशादि निपातनात् । ऋदुदित इति नोन्तः ।