SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ हैमनूत लघुक्रिया दिगधिक संज्ञातद्वितोत्तरपदे | ३|१|७८ || दिग्वाचि अधिक मित्येतच्चैकार्थ नाम परेण नाम्ना सह समस्यते । संज्ञायां तद्धिते च प्रत्यये विषयभूते उत्तरपदे च परतः, स च तत्पुरुषः कर्मधारयश्च । दक्षिणाश्च ताः कोशलाश्च दक्षिणकोशलाः । जनपदसंज्ञेयम् । वाक्येन संज्ञाऽनवगमात्संज्ञायां नित्यसमासः । विग्रहवाक्यं तु विभागप्रदर्शनपरं न समाना'र्थकमिति बोध्यम् । दक्षिणस्यां शालायां भवो दाक्षिणशीलः । 'अत्र भवार्थे तद्धितप्रत्ययविषये प्रागेव समासः पश्चात्तद्धितप्रत्ययः । अधिकया षष्ठ्या क्रीतः अधिकाष्टिकः । दक्षिणो -गौर्धनं यस्येति त्रिपदे बहुव्रीहौ त्रयाणामेकार्थीभावे उत्तरपदे परे दक्षिण सिगो सिधन सीत्यलौकिके विग्रहे दक्षिण सि गोसि इत्यंशस्यानेन तत्पुरुषसंज्ञा । तेन तत्र गोस्तत्पुरुषा-दित्यट् । दक्षिणगंवधनः । एवमन्यत्राप्युशम् ॥ ५३४ संख्यासमाहारे च द्विगुश्चाऽनाग्न्ययम् । ३१११९९ ॥ संख्यावाचि नाम परेण नाम्ना सह समस्यते, संज्ञातद्वितयो 'विषये उत्तरपदे परे समाहारे व चाच्ये, स समास्तत्पुरुषः कर्मधारयथ । अयमेव चासंज्ञायां द्विगुसंज्ञश्च । सप्त च ते ऋष ६ - सर्वादय इति पुंक्त् । ७- दक्षिणा हि शाला ङी । समासे स्यादि एक् । सर्वोदय इति पुंवत् । इति शालाशब्दस्य ह्रस्वः दिक्पूर्वपदादनाम्न इति णः, मादिस्वरवृद्धिः, अवर्णेवर्णेत्यलोपः । ८अधिक टाट टा । क्रीते इण । मानसंवत्सरस्येत्यादिना वृद्धिः । १- अट्यवादेशः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy