________________
५३३
हैमनूतनलघुप्रक्रिया गम्यायां पूज्यमानवाचिभिर्नामभिः समस्यते, स तत्पुरुषः कर्मधारयश्च । संचासौ पुरुषश्च सत्पुरुषः। . जातीयैकार्थेऽच्वेः ३२१७०॥ महतोऽच्च्यन्तस्य जातीय प्रत्यये एकार्थे चोत्तरपदे डा अन्तादेशो भवति । महापुरुषः, परमपुरुषः, उत्तमपुरुषः, उत्कृष्टपुरुषः। पूर्वप्रयो. गार्थ वचनम् । तेन सच्छुक्ल इत्यादौ खञ्जकुण्टादिवदनियमो न । महोदधिरित्यादौ महदादिशब्दस्य वैपुल्यादिवाचित्वेऽपि बाहुलकात्समासो बोध्यः । महावीस, परममहानित्यादौ यथापरं पूर्वनिपातः। - वृन्दारकनागकुञ्जरैः ।३।१।१०८॥ पूजायां गम्यमानायां वृन्दारक-नाग-कुञ्जरैर्नामभिरेकार्थ नाम समस्यते, स तत्पुरुषः कर्मधारयश्च । वृन्दारक इव वृन्दारकः, मुनिश्वासौ वृन्दारकश्च मुनिवृन्दारकः, गोनागः, राजकुञ्जरः । इहोपमानात्पूजा गम्यते ॥
कि क्षेपे ।३।१।११०॥ निन्दायां गम्यायां किमित्येनाम निन्द्यवाचिना नाम्ना समस्यते, स तत्पुरुषः कर्मधारयश्च । कुत्सितो नरः किंनरः, किन्नरः, अश्वमुखत्वात् । कुत्सितो वैयाकरणः किंवैयाकरणः, शब्देष्वव्युत्पन्नत्वात् । कुत्सितः शुका किंशुकः, किश्चिमीलस्वात् । एवमन्यत्राऽप्यूह्यम् ॥ १-महत् सि पुरुष सि । डित्यन्तस्वरादिलोपः । २-परत्वादस्याऽत्र पूर्वापरेति समासों न । ३-तौ मुमो । ४-तौ मुमो । ५ शिडनुस्वारः।