________________
५१२
हैमनूतनलघुप्रक्रिया समस्यते, न चेदुपमानोपमेयसाधारणधर्मवाची शब्दः प्रय ज्यते, स तत्पुरुषः कर्मधारयश्च । व्याघ्र इव व्याघ्रः, पुरुष थासौ व्याघ्रश्च पुरुषव्याघ्रः । एवं पुरुषसिंहः, मुनिपुंगवः राजकुञ्जरः इत्यादि । व्याघ्रादिराकृतिगणः । तेन वाग्वजम् । मुखपद्ममुखेन्दुकुचकुम्भादयः । साम्यानुक्ताविति किम् । पुरुषो व्याघ्र इव शूर इत्यादौ न भवति । अत्राहन पुरुषस्य शूरसापेक्षत्वादेवात्र व्याघ्रण न समास इति । अत्रोच्यते-एवं तर्हि अयमेव प्रतिषेधो ज्ञापयति 'प्रधानस्य सापेक्षत्वेऽपि समास' इति । तेन 'राजपुरुषो दर्शनीय इत्यादौ समासः सिध्यति । उपमानं सामान्यैरेवेति नियमबाधनार्थमुपमेयस्य पूर्वप्रयोगार्थ च सूत्रमिति बोध्यम् ॥ ____ पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीरम ।३।१।१०३।। पूर्वादीनि नामानि परेण नाम्ना सह समस्यन्ते, स तत्पुरुषः कर्मधारयश्च । पूर्वश्चासौ पुरुषश्च पूर्वपुरुषः । वीरपुरुष इत्यादि । पूर्वप्रयोगनियमार्य सूत्रम् । एकवी इत्यादौ बाहुलकात् पूर्वकालैकेति समासो बोध्यः ॥
. सन्महत्परमोत्तमोत्कृष्टं पूजायाम् ॥३।१।१०७। सत्-महतु-परम-उत्तम-उत्कृष्ट-इत्येतानि नामानि पूजाय २-शूरत्वमत्रोभयसाधारणो धर्मः ।। ३-सापेक्षमसमर्थवदित्यममर्थ्यादिति भावः । ४-अन्यथा सापेक्षत्वादसामर्थ्यात्समासो न स्यात् ।