________________
हैमनूतनलघुप्रक्रिया
५११
एकोऽसहायश्चौर एकचौरः । एकोऽद्वितीयो धनुर्धर एकधनुर्धरः । सर्वे शैलाः सर्वशैलाः । जरन् स च वलिनश्च जरलिनः । पुराणो मुनिः पुराणमुनिः । नवमुद्दकं नवोदकम् । केवलमसहायं ज्ञानं केवलज्ञानम् । पूर्वप्रयोगार्थं वचनम् ||
C
,
निन्द्यं कुत्सनैरपापाद्यैः | ३ | १|१०० ॥ निन्द्यवाचि नाम पापादिवर्जितैर्निन्दाहेतुभिः समस्यते स तत्पुरुषः कमचारयश्च । द्विजश्वासौ जाल्मश्च द्विजजाल्मः । मुनिश्वासौ धूर्तश्च मुनिधूर्तः । अपापाद्यैरिति किम् ? पापश्चासौ तापसचं पापतापसः । हतश्वासौ विधिश्व हतविधिः । प्राक्प्रयोगार्थ सूत्रम् ॥ उपमानं सामान्यैः | ३|१|१०१ ॥ उपमानवाचि नामोपमानोपमेयसाधारणधर्मवाचिना नाम्ना समस्यते, स तत्पुरुषः कर्मधारयश्च । शस्त्रीव शस्त्री, शस्त्री चासौ श्यांमा च शस्त्रीश्यामा | शस्त्रीव श्यामेत्यर्थः । शस्त्रीति स्त्रीलिङ्गसंज्ञेति परतः स्त्रीत्वाभावान्नः पुंवत् 1 घन इव श्यामो घनश्यामः । विशेषणं विशेष्येणेत्येव समासे- सिद्धे 'उपमानं सामान्यैरेवेति नियमार्थ सूत्रम् । तेनाग्निर्माणवक इत्यादौ विशेषणसमासोऽपि न ॥
3
उपमेयं व्याघ्राद्यैः साम्यानुक्तौ |३|१|१०२ ॥ "उपमेयवाचि नाम उपमानं वाचिभिव्याधिनमिभिः सह -अत्र श्यामदियः शब्दास्तद्वति । श्यामत्वाद्यपमानोपमेययसाधारणो • धर्म इति बोध्यम् ।