________________
५०६ . हैमलघुनूतनप्रक्रिया मूलकेनोपदंश मूलकोपदंश भुङ्क्ते ।. पार्श्वयोः पार्धाभ्यां कोपपीडं पाश्र्थोपपीडं शेते ॥
नञ् ।३।१।५१॥ नबित्येतन्नाम नाम्ना समस्यते सोऽन्यस्तत्पुरुषः। पयुदासे प्रसज्ये च नञ् । उत्तरपदार्थेन सम्बन्धे पर्युदासः, क्रियया सह सम्बन्धे प्रसज्यः । नञ्तरपुरुषसमासार्थश्चतुर्धा--तत्सशस्तद्विरुद्धस्तदन्यस्तदभावश्च । न ब्राह्मणोऽब्राह्मणः, अत्र ब्राह्मणसदृशः क्षत्रियादिःप्रतीयते । अधर्मः, अत्र धर्मविरुद्धः पाप्मा प्रतीयते । अनिति स्वरूपनिर्देशानलोपो द्वित्वं च न भवतीति बोध्यम् । अनग्निः, अत्राग्नेरन्यः प्रतीयते। अवचनम्, अत्र वचनाभावः प्रतीयते । उत्तरपदार्थप्राधान्यानस्तत्पुरुषस्य तल्लिङ्गसंख्यता, पूर्वपदार्थादिप्राधान्ये अमक्षिकमित्यादौ तु अव्ययीभावादिरिति विवेकः । प्रसज्यप्रतिषेधे स्वसामर्थ्यान्न समासः । क्वचित्तु असूर्यपश्या इत्यादौ गमकत्वादबाहुलकात्समास इति बोध्यम् । अत्र श्लोको
२-दशेरिति णम् । मूलक टा उपदंशं सीति विग्रहः । प्रधानभुजिक्रियाकरणत्वात्तृतीया । ३-शयनक्रियायां करणत्वविवक्षया सप्तमी । ४-न सि ब्राह्मण सि - नादित्यः । ५-- सि मक्षिका आम् । अर्थाभावेऽव्ययीभावः । नात् । क्लीबत्वाद् हस्वः, अमव्ययीभावादित्यम् । ६-क्रियासापेक्षत्वात् , सापेक्षमसमर्थमिति वचनादिति बोध्यम् । ७-न सूर्य पश्यन्तीत्यर्थे खशन्तः ।