SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया र्नामभिः सह समस्यते, क्षेपे गम्ये, स तत्पुरुषः । तीर्थे का इव तीर्थकाकः। अनवस्थित एवमुच्यते । उपमया चात्र क्षेपो गम्यते । सिंहादिः काकादिवाकृतिगणः । पात्रे समितादयः ।३।११९१॥ पात्रेसमितादयः . सप्तमीतत्पुरुषा निपात्यन्ते क्षेपे गम्यमाने । पात्रे एव समिताः पात्रेसमिताः, भोजनसमये एव संगता न तु कार्ये इत्यर्थः । एवं गेहे एव शूर इति गेहेशूरः। एवमादिष्ववधारणेन क्षेपो गम्यते । कूपे मण्डूक इव कूपमण्डूकः । अल्पदर्शी एवमुच्यते । अत्रोपमया क्षेपो गम्यते । एषु निपातनात्सप्तम्या अलुप । आकृतिगणोऽयम् । वाक्येन क्षेपानवगमाभित्यसमासा एते ।। ङस्युक्तं कृता ।३।११४९॥ कृत्प्रत्ययविधायके सूत्रे पञ्चम्यन्तेन नाम्नोक्तं नाम कृदन्तेन नाम्ना नित्यं समस्यते, स तत्पुरुषः । इह च गतिकारकङस्युक्तानां विभक्त्यन्तानामेव कृदन्तैविभक्त्युत्पत्तेः प्रागेव समास इष्यते । कुम्भ करोतीति कुम्भकारः, कुद्योगे षष्ठीत्यतः कुम्भ ङस् कार इत्यलौकिकविग्रहः । एवमन्यत्राप्यूह्यम् ॥ तृतीयोक्तं वा ।३।१॥५०॥ 'दंशेस्तृतीयया' इत्यारभ्य यत्ततीयोक्तं नाम तत्कृता नाम्ना वा समस्यते स तत्पुरुषः। ५-विषयसप्तमी । ६-विषयसप्तमी । ७-विषयसप्तमी । ८-औपश्लेषिकसप्तमी । १-कर्मण्यण् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy