________________
५०४
हैमनूतनलघुप्रक्रिया: प्रकरणादिनाऽद्विा वर्णादि ज्ञायते, तदा योऽर्थः शुक्लः स पटस्य, ये इमे शुक्लाः ते द्विजस्येत्येवमर्थलाभात्सामर्थ्य बोध्यम् । एवं काकस्य कृष्ण इत्यादावप्यूह्यम् । काकस्य काष्ण्यम् , गुडस्य माधुर्यम् । गुणशब्देन चेह रूपरसगन्धस्पर्शा ग्राह्याः। तेन यत्नस्य गौरवं यत्नगौरवम् , अङ्गसौष्ठवम् , पटहशब्दः, गोशतम् शब्दाधिक्यमित्यादौ समासो भवति । अस्वस्थगुणैरिति किम् ? घटवर्णः। कन्यारूपम् । ईदृशप्रयोगेषु वर्णादयः शब्दा वर्णाद्यर्थ एव वर्तन्ते इति स्वस्था इति समासो भवति, कुसुमसौरभ्यमित्यादौ च भवतीति बोध्यम् । ___ सप्तमी शौण्डायैः ।३।१।८८॥ सप्तम्यन्तं नाम शौण्डादिभिर्नामभिः समस्यते, स तत्पुरुषः । पाने प्रसक्तः शौण्डः पानशौण्डः । प्रसक्तिक्रियाद्वारा सामर्थ्यम् । आकृतिगणोऽयम् ।
सिंहाथैः पूजायाम् ।३।११८९॥ सप्तम्यन्तं नाम सिंहाधैर्नामभिः सह समस्यते पूजायां गम्यमानायाम् , स तत्पुरुषः । रणे व्याघ्र इव रणव्याघ्रः । भुवि देव इव भूदेवः । कलौ युधिष्ठिर इव कलियुधिष्ठिरः। उपमयैषु पूजा गम्यते ॥
काकाद्यैः क्षेपे ।३।११९०॥ सप्तम्यन्तं नाम काकायै१-विषयसप्तमी । २-विषयसप्तमी । रण ङि व्याघ्र सीति विग्रहः । ३-औपश्लेषिक सप्तमी । ४-विषयसप्तमी ।