________________
५०३
हैमनूवनलघुप्रक्रिया वर्तते । तस्योपरि तदुपरि पदं निधत्ते । अव्ययेन प्रतिषेधस्यापवादः। आकृतिगणोऽयम् ।
तृप्तार्थपूरणाऽव्ययातृशशत्रानशाः ।३।१२८५॥ तृप्ताथै ः पूरणप्रत्ययान्तैरव्ययैरतशन्तैः : शत्रन्तैरानशन्तैश्च नामभिः षष्ठ्यन्तं नाम न समस्यते । अपां तृप्तः, फलानां सुहितः, तीर्थकृतां षोडशः, चक्रिणां द्वितीयः । ग्रामस्य पुरस्तात् , चैत्रस्य कृत्वा। रामस्य द्विषन् । चैत्रस्य पचन् । चैत्रस्य पचमानः। सर्वत्र शेषे षष्ठी।
ज्ञानेच्छा!र्थाधारक्तेन ।३।११८६॥ ज्ञानार्थादिच्छार्थादार्थाच्च वर्तमाने यः क्तः, यश्चाधारे तो विहितस्तदन्तेन नाम्ना षष्ठ्यन्तं नाम न समस्यते । राज्ञां ज्ञातः, राज्ञामिष्टः, राज्ञामचितः, इदं चैत्रस्याऽऽसितम् । राजपूजित इत्यादौ तु बाहुलकात्समासः, भूते तान्तेन तृतीयासमासो वा ॥
अस्वस्थगुणैः ।३।११८७॥ अस्वस्थगुणवाचिभिर्नामभिः षष्ठ्यन्तं नाम न समस्यने । यो गुणशब्दों गुणे एव वर्तते न द्रव्ये स स्वस्थः, तत्प्रतिषेधादस्वस्थ इति बोध्यम् । पटैस्य शुक्लः । द्विजस्य शुक्लाः । अत्र
३-शेषे षष्ठी । अययेन समासनिषेधापवादः । ४-वर्तमाने क्तः,
कर्मणि षष्ठी । ५-कर्तरि षष्ठी । ६-आधारे क्तः।७-शेषे षष्ठी ।