________________
५०२, . हैमनूतनलघुप्रक्रिया प्रत्ययान्तेन नाम्ना न समस्यते । भवतः शायिकी । शेषे - षष्ठ्यां सम्बन्धमात्रविवक्षायां तु स्यादेवेति बोध्यम् ।
कर्मजा तृचा च ।३।११८३॥ कर्मणि विहिता या षष्ठी तदन्तं नाम कर्तृविहिताऽकप्रत्ययान्तेन तृजन्तेन च नाम्ना न समस्यते । ओदनस्य भोजकः । भुवो भर्ता ।
तृतीयायाम् ।३।११८४॥ कर्तरि तृतीयायां सत्यां कर्मजा षष्ठी न समस्यते । आश्चर्यो गवां दोहोऽगोपालकेन । कर्तरि षष्ठ्यां सत्यां भवति-साध्विदं शब्दानुशासनमाचार्यस्य । गोदोहो गोपालकेनेत्यादौ तु शेषषष्ठ्या समासो बोध्यः ॥
याजकादिभिः ।३।११७८॥ षष्ठ्यन्तं नाम याजक इत्येवमादिभिर्नामभिः समस्यते, स तत्पुरुषः । ब्रामणानां याजको ब्राह्मणयाजकः। एवं गुरुपूजकः । आकृतिगणोऽयम् । तेन तुल्यार्थैरपि-गुरुसमः, पितृतुल्य इत्यादि । तथातीर्थकर्ता, भूभर्तेत्यादि।
सर्वपश्चादादयः ।३।१।१८०॥ सर्वपश्चादित्यादयः षष्ठीतत्पुरुषाः साधवः स्युः। सर्वेषां पश्चात्सर्वपश्चात्पदं १०-कर्तरि षष्ठी कृद्योगे। ११-कर्मणि षष्ठी कृद्योगे । १२ द्विहेतोरिति
षष्ठी विकल्पे कर्तरि तृतीया । १३-कर्मणि षष्ठी कृद्योगे । १-तुल्यार्थैरिति षष्ठी । २-कर्मणि षष्ठी ।
AM