________________
५००
हैमनूतनलघुप्रक्रिया ____हितादिभिः ।।१।७१॥ चतुर्थ्यन्तं नाम हितादिभिः समस्यते, स तत्पुरुषः । गोभ्यो हितं गोहितम् । हित मुख रक्षित बलि इति हितादयः । आकृतिगणोऽयम् । तेन अश्वार्य घासोऽश्वघासः, आत्मनेपदं परस्मैपदम् , देवदेयमित्यादि सिद्धम् । तव्यान्तेन तु न, द्विजाय दातव्यम् ॥ ::
तदर्थार्थेन ।३।१७२॥ चतुर्थ्यन्तं नाम चतुर्थ्यर्थेन अर्थशब्देन समस्यते, स तत्पुरुषः। उदकायाऽयमुदकार्थों घटः। आतुरायेत्यातुरार्था यवागूः। डेऽर्थों वाच्यवदिति वाच्यलिङ्गता ॥ ... 'पञ्चमी भयाद्यः ।३।११७३॥ पञ्चम्यन्तं नाम भयाद्यैनामभिः सह समस्यते, स तत्पुरुषः। वृकाद् भयम् वृकभयम् । भय भीत भीति भी भीरु भीलुक निर्गत जुगुप्सु अपेत अपोढ मुक्त पतित अपत्रस्त इति भयादयः। आकृतिगणोऽयम् । तेन स्थानाद् भ्रष्टः स्थानभ्रष्टः, स्वर्गाच्च्युतः स्वर्गच्युतः, गृहादानीतो गृहानीत इत्यादि । बहुलाधिकारात
क्वचिन्न-वृक्षात्पतितो भोजनौदपत्रस्त इत्यादि। .. .. पर शतादिः ।।१।७५।। पर शतादिः पञ्चमीतत्पुरुषः .३-हितेति , चतुर्थी ।४-तादर्थे चतुर्थी । ५-परात्मभ्यामित्यलुप् ।
तादर्थे चतुर्थी । ६-सम्प्रदाने . चतुर्थी । ७-तादर्थ्य चतुर्थी । ८-अपादाने पञ्चमी । ९-अपादाने पञ्चमी । १०-अपादाने पञ्चमी। ११-अपादाने पञ्चमी ।