SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ४९७ हैमनूतनलघुप्रक्रिया क्रुष्टाद्यर्थेष्वादयस्तृतीयान्तेन, ग्लानाद्यर्थेषु पर्यादयश्चतुर्थ्यन्तेन, क्रान्ताद्यर्थेषु निरादयः पञ्चम्यन्तेन नाम्ना सह समस्यन्ते, सोऽन्यस्तत्पुरुषः । प्रगतः प्रकृष्टो वाऽऽचार्य: प्राचार्यः। प्रवृद्धो गुरुः प्रगुरुः। संगतोऽर्थः समर्थः, विरुद्धः पक्षो विपक्ष इत्यादि । अतिक्रान्तः खट्वामतिखट्रैवः, अभिप्रपन्नो मुखमभिमुख इत्यादि । अवक्रुष्टः कोकिलयाऽवैकोकिलो वसन्तः। अनुगतमर्थेनाऽन्वर्थ नाम, वियुक्तमर्थेन व्यर्थ वचः। संगतमर्थेन समर्थ पदम् इत्यादि । परिग्लानोऽध्ययनाय पर्यध्ययनः, उद्युक्त:संग्रामायोत्संग्राम इत्यादि । निष्क्रान्तः कौशाम्ब्याः निष्कौशॉम्बिः। अपगतः . शाखायाः अपशाखः । उत्क्रान्तः सूत्रादुत्सूत्रो न्यायः, अपगतं. विगतं वाऽर्थादपार्थ व्यर्थ वा वचः । बहुलाधिकारात् षष्ठयन्तेनाऽपि सप्तम्यन्तेनाऽपि च क्वचिद् ॥ .... व्याप्ती ३३११६१॥ व्याप्ती या द्वितीया तदन्तं कालवाचि नाम व्यापकवाचिना. नाम्ना समस्यते, स १-प्र आचार्य सि । २-गौणात्समयेति द्वितीया । अति खट्वा अम्। गोश्चान्त इति , हुस्वः । ३-लक्षणे द्वितीया । ४-गौणे कर्तरि तृतीया । अव कोकिलाटा । गोश्वान्त इति इस्वः । ५-सम्प्रदाने चतुर्थी । ६-सम्प्रदाने चतुर्थी तादर्थं वा । 6-निर् कौशाम्बी हसि । अपादाने पञ्चमी । गोश्चान्त इति हस्वः, निर्दुरिति षः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy