________________
४१६
४९६
हैमनूतनलघुप्रक्रिया न्यस्तत्पुरुषसंज्ञको भवति । निन्दितः पुरुषो दुष्पुरुषः, कृच्छ्रेण कृतं दुष्कृतम् ।
सुः पूजायाम् ॥३॥१॥४४॥ मु इत्यव्ययं पूजायां वर्तमानं नाम्ना नित्य समस्यते सोऽन्यस्तत्पुरुषः । पूजितः प्रशस्तः शोभनो साधुः सुसाधुः, सुमतिः, सुफलम् ।।
अतिरतिक्रमे च ।३।११४५॥ अतीत्यव्ययमतिक्रमे पूजायां च वर्तमानं नाम्ना नित्य समस्यते, सोऽन्यस्तत्पुरुषः। अतिक्रम्य स्तुत्वा सिक्त्वा वाऽतिस्तुत्याऽतिसिच्य। अतिक्रमे उपसर्गत्वाभावान्न षः। अतिशयितः पुरुषोऽतिपुरुषः। अतिक्रमे बाहुलकात् क्वचिन्न, अति श्रुत्वा । क्वचिद्विकल्पः, अति सिक्त्वा ॥
आङल्पे ३२११४६॥ आडित्यव्ययमल्पेऽर्थे वर्तमान नाम्ना नित्यं समस्यते सोऽन्यस्तत्पुरुषः। ईषत्कडार आकडारः। क्रियायोगे आहो गतित्वादीषद् बद्धमाबद्धमित्यादौ गतिसमास एव बोध्यः॥
- प्रात्यवपरिनिरादयो गतकान्तकुष्टग्लानक्रान्ताद्यर्थाः प्रथमाद्यन्तैः ।३।११४७॥ गत्याद्यर्थेषु वर्तमानाः प्रादयः प्रथमान्तेन, क्रान्तार्थेषु अत्यादयो द्वितीयान्तेन, ४-दुर् पुरुष सि । निर्दुरिति षः । ५-दुर् कृत सि। निर्दुरिति षः । ६-सु साधु सि । ७-यप , तोऽन्तः ।