SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ४९५ हैमनूतनलघुप्रक्रिया सरजसोपशुनानुगवम् ।७।३।९४॥ सरजस उपशुन अनुगव इत्येतेऽव्ययीभावा अदन्ता निपात्यन्ते । रजोऽप्यपरित्यज्य सरंजसम् । शुनः समीपे उपशुनं तिष्ठति । गामनु अनुगवम् । गोदैर्ध्यसदृशदैयोपलक्षितमित्यर्थः । दैर्थेऽनुरित्यव्ययीभावः ॥ ॥ इत्यव्ययीभावसमासप्रकरणम् ॥ ॥ अथ तत्पुरुषसमासप्रकरणम् ॥ गतिक्वन्यस्तत्पुरुषः ।३।११४२॥ कु इत्यव्ययं कुत्सादौ । गतिसंज्ञकाः कुश्च नाम नाम्ना सह नित्यं समस्यते स च बहुव्रीह्यादिलक्षणरहितस्तत्पुरुषसंज्ञको भवति । उरीकृत्य, प्रणम्य, प्रकृत्य । कुत्सितो ब्राह्मणः कुब्राह्मणः, कुसाधुः, कुमतिः । बहुव्रीहौ तु कुत्सिता मतिर्यस्य स कुमतिकः । बहुव्रीही वा कच् ॥ ... दुनिन्दाकृच्छ्रे ।३।१।४३॥ दुरित्यव्ययं नाम निन्दायां कृच्छ्रे चाऽर्थे वर्तमानं नाम्ना नित्यं समस्यते,, सोs ७-रजस् टा सह । साकल्येज्ययीभावः । अकाल इति सादेशः । ८-श्वन् ङस् उप, सस्वरस्य वस्य निपातनादुः । '१-उरीकृत्वा । उर्यादीति गतिसंज्ञा, समासे क्त्वो यप् , तोऽन्तो ह्रस्वस्ये त्यनेन । क्त्वातुमेत्यययत्वात्स्यादेर्लुक् । २-प्रनम् स्वा । उर्याद्रीति गतिसंज्ञा । समासे क्त्वो यप । उपसर्गान्तर इति णः । ३-कु ब्राह्मणसीत्यलौकिकविग्रहः । .......
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy