SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ हैमनूत लघुप्रक्रिया प्रतिपरोऽनोरव्ययीभावात् । ७|३|८७|| प्रति परस् अनु इत्येतत्पूर्वी योऽक्षिशब्दस्तदन्तादव्ययीभावादत् समासान्तो भवति। अक्षिणी प्रति प्रत्यक्षम् | परशब्दसमानार्थः परस् शब्दोऽव्ययम् । अक्ष्णोः परम् - अतीतं परोक्षम् । अत्ययेऽव्ययीभावः । अक्ष्णः समीपमन्वक्षम् । प्रत्यक्षोऽर्थः परोक्षः काल इत्यादिप्रयोगास्त्वादेरा कृतिगणत्वादप्रत्ययेन समाधेयाः ॥ अनः | ७|३|८८ || अन्नन्तादव्ययीभावादत्समासान्तो भवति । राज्ञः समीपमुपैराजम् । आत्मनीत्यध्यात्मम् । आत्मानमात्मानं प्रति प्रत्यात्मम् ॥ ४९४ शरदादेः | ७|३|१२|| शरदाद्यन्तादव्ययीभावादत् समासान्तो भवति । शरदः समीपमुपशरदम् । मनो मनः प्रति प्रतिमनसम् । दिशः क्रमेणानुदिशम् || जराया जरसू च |७|३|१३|| जराशब्दान्तादव्ययीभावादत्समासान्तो भवति । तत्सन्नियोगे च जराशब्दस्य 'जरसादेशः । जरायाः समीपमुपजरसम् । : i १ - अक्षिणी औ प्रति । भागिनि चेति द्वितीया । अवर्णेतीकारलोपः । २- अक्षि ओस् परं । से: स्थानिवद्भावेन स्याद्यन्ततया पदसंज्ञा, सः, अतोऽतीत्युः, अवर्णस्येरमोः, एदोत इति लुक् । अत्यवर्णेतीकारलोपः । ३ - अक्षि औ अनु, लक्षणे द्वितीया । ४- राजन् ङस् उप । -असत्त्वारादर्थकयोगे षष्ठी । नोsपदस्येत्यनो लोपः । ५- आत्मन् ङि अधि । नस्तद्धिते । ६- आत्मन् अम् प्रति ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy