________________
हैमनूतनलघुप्रक्रिया सहककालं सचक्र धेहि । अत्र युगपत्सहार्थः । व्रतस्य सदृशं. सव्रतम् । अत्र सदृशमित्यर्थे सहशब्दः । संपत् सिद्धिः।
नपुंसकाद् वा ।७।३।८७॥ अन्नन्तं यन्नपुंसकं तदन्तादव्ययीभावादत् समासान्तो वा भवति । ब्रह्म सम्पन्नं सब्रह्म सब्रह्म साधूनाम् । साकल्यमशेषता । तृणमप्यपरित्यज्य सतणमभ्यवहरति, न किञ्चिदपि त्यजति । सकलमभ्यवहरतीति यावत् । अन्तः समाप्तिः। पिण्डैषणया सह सपिण्डैषणमधीते । पिण्डेषणापर्यन्तमित्यर्थः॥ - - ____ योग्यता वीप्सार्थानतिवृत्तिसादृश्ये ३२११४०॥ योग्यतादिष्वर्थेष्वव्ययं नाम नाम्नैकायें पूर्वपदार्थे नित्यं समस्यते, सोऽव्ययीभावः । रूपस्य योग्यमनुरुप चेष्टते । अर्थमर्थमिति प्रत्यर्थम् , अर्थमर्थ प्रतीत्यर्थः । वीप्सायां द्वितीयाविधानसामर्थ्याद्वाक्यमपि । अनतिवृत्तिः पदार्थानतिक्रमः । शक्तेरनतिक्रमेण यथाशक्ति पठ। शीलस्य सादृश्यं संशीलमनयोः । अत्र सादृश्यार्थस्य प्राधान्यम् , सहशार्थप्राधान्यं सत्रतादाविति भेदः। सादृश्ये यथाशब्दो न समस्यते । यथा चैत्रस्तथा मैत्रः॥
२-चक्र टा सह । ३-सहस्य सादेशः, ब्रह्म टा सह । नस्तद्धिते ।
अद् विकल्पे नलोपः । ४-रूप अम् अनु । ५-अर्थ अम् प्रति । भागिनि चेति द्वितीया । ६-शक्ति डस् यथा । ७-शील ङस् सह । सादेशः।