SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ narinnamomumprin हैमनूतनलघुप्रक्रिया स्त्रीषु इति अधिस्त्रि निधेहि । कुम्भस्य समीपे उपकुम्भम् । ऋद्धराधिक्यं समृद्धिः। जैनानां समृद्धिः सुजैनम् , भिक्षाणां समृद्धिः सुभिक्षम् । विगता ऋद्धिय॑द्धिः, ऋद्धयभावः । यवनानामृद्धयभावो दुर्यवनम् । भिक्षाणामृद्धयभावो दुर्भिक्षम् । अर्थस्य वर्तिपदार्थस्याभावोऽर्थाभावः। मक्षिकाणामभावो निर्मक्षिकम् , अमक्षिकम् , उन्मशकम् , निवातम् । अत्ययोऽतीतत्वम् । वर्षाणामतीतत्वमतिवर्षम् । एवमतिशीतम् , निहिमम् , अर्तृणम् । असम्प्रतीति वर्तमानकाले उपयोगादिप्रतिषेधः । कम्बलस्योपभोग प्रति नाऽयं काल इत्यतिकम्बलं कालः । रथस्य पश्चाद् अनुरथं याति । क्रम आनुपूर्वी । ज्येष्ठस्य क्रमेण अनुज्येष्ठं प्रविशन्तु मुनयः । ख्यातिः शब्दप्रथा । भद्रबाहोः ख्यातिरितिभद्रबाहु । भद्रबाहुशब्दो लोके प्रकाशत इत्यर्थः । एवमहोभद्रबाहु । युगपदेककालार्थः । अकालेऽव्ययीभावे ।३।२।१४६॥ सहशब्दस्याऽकालवाचिन्युत्तरपदेऽव्ययीभावसमासे सादेशो भवति । चक्रेण २-त्री सुप् अधि इत्यलौकिकविग्रहः, क्लीब-हस्वः, अनतो लुप् अधिकरणे अधिः । ३-कुम्भ ङस् उपेत्यलौकिकविग्रहः । सेरमव्ययीभावस्येत्यम् । अध्ययं सर्वत्र प्रथमोक्तं प्राक् । उपोऽत्र समीपे । ४-जैन आम् सु इत्यलौ केकविग्रहः । अत्र सु इत्यव्ययं समृद्धयर्थे । ५-भिक्षा आम् दुर् । क्लीबत्वाद् ह्रस्वः । ६-नात् । क्लीबे ह्रस्वः । ७-तृण आम् नञ् । नञत् । अमव्ययेत्यम् सर्वत्र बोध्यम् । १-रथ अम् अनु | लक्षणे द्वितीया ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy