SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ४९१ हैमनूतनलघुप्रक्रिया अनुगङ्गं वाराणसी । गङ्गादैर्ध्यसदृशदैयोपलक्षितेत्यर्थः । अत्र गङ्गा दीर्घताचिह्नम् , वाराणसीदैध्ये लक्ष्यम् । - समीपे ।३।१॥३५॥ अनु इत्येतनाम समीपेऽर्थे वर्तमाने समीपिवाचिना नाम्ना ऐकायें सति पूर्वपदार्थेऽभिधेये समस्यते, स समासोऽव्ययीभावः । अनु समीपं वनस्य अनुवनशनिर्गता । अन्वित्यस्य लक्षणे वृत्तिर्वनं लक्षणमिति वन अम् अन्त्रित्यलौकिकविग्रहः । नित्य प्रतिनाऽल्पे ।३।१॥३७॥ अल्पेऽर्थे वर्तमानेन प्रतिना नाम्ना नाम नित्यं :समस्यते स समासोऽव्ययीभावः । अविग्रहो नित्यसमासोऽस्वपदविग्रहो वा। शाकस्याल्पत्वं शाकप्रति, सूपस्य मात्रा सूपप्रति, घृतस्य लेशो घृतप्रति भोजने । नित्यसमास इत्यतः सूपस्य प्रतीत्येवमादि वाक्यं न प्रयुज्यते । विभक्ति-समीप-समृद्धि-वृद्धयर्थाभावात्ययासम्प्रतिपश्चात्क्रमख्यातियुगपत्सक्सम्पत्साकल्यान्तेऽ. व्ययम् ॥३॥१॥३९॥ विभक्तिविभक्त्यर्थः कारकम् । विभक्तयर्थादिष्वर्थेषु वर्तमानमव्ययं नाम नाम्ना सहकार्ये सति पूर्वपदार्थेऽभिधेये नित्यं समस्यते स समासोऽव्ययीभावः । ८-अव्ययीभावस्य क्लीबत्वाद् ह्रस्वः । अमव्ययीभावेति सेरम् । १-प्रथमोक्तं प्राक् । अनतो लुप् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy