SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ ४९० हैमनूतनलघुप्रक्रिया पर्यपाइबहिरच पञ्चम्या ३३१॥३२॥ पर्यादीनि नामानि प्रतिपदविहितपञ्चम्यन्तेन नाम्ना सहकार्य पूर्वपदार्थेऽभिधेये समस्यन्ते, स च समासोऽव्ययीभावसंज्ञो भवति । इह अच् इति धाप्रत्ययलोपे एनप्रत्ययलोपे चाऽव्ययं गृह्यते साहचर्यात् । परि शत्रुचयात् परिशत्रुञ्जयम् । एवमपशत्रुञ्जयम् । आ शत्रुञ्जयम् , बहिमम् , प्राग्यामम् । अपगतः शाखायाः =अपशाख इत्यादौ त्वपाये पञ्चमी, न प्रतिपदविहितेति नाऽव्ययीभावः ।। ___ लक्षणेनाऽभिप्रत्याभिमुख्ये ३१॥३३॥ लक्षणं चिहनम् चिह्नवाचिना नाम्ना आभिमुख्ये वर्तमाने अभि प्रति इत्येते ऐकायें सति पूर्वपदार्थेऽभिधेये समस्येते, स समासोऽव्ययीभावसंज्ञको भवति । अभि अग्निमभ्यग्नि शलभाः पतन्ति । अग्निमभिलक्ष्याभिमुखं पतन्तीत्यर्थः । एवं प्रत्यग्नि ॥ दैर्येऽनुः ॥३१॥३४॥ अनु इत्येतनाम दैर्ध्य विषये लक्षणवाचिना नाम्ना ऐकायें सति पूर्वपदार्थेऽभिधेये समस्यते, स समासोऽव्ययीभावसंज्ञः । अनु गगां दीर्घा, १-पर्यपाभ्यामिति पञ्चमी । वृष्टो मेघ इति सर्वत्रोह्यम् । २-आङाव धाविति पञ्चमी । ३-४-प्रभृत्यन्याति पञ्चमी । ५-प्रादिसमासः । गोश्चान्त इति ह्रस्वः ६-लक्षणेत्यादिना द्वितीया । प्रथमोक्तं प्राक् ,. अनतो लुप् । ७-अत्र भागिनि च प्रतिपर्यनु० इति द्वितीया ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy