________________
हैमनूतनलघुप्रक्रिया । द्वितीयाद् । द्वितीयस्मिन् , द्वितीये। शेषं देववत् । एवं तृतीयस्मै, तृतीयायेत्यादि । उभशब्दो नित्यं द्विवचनान्तः । उभयशब्दस्य च द्विवचनं नास्ति । उभौ २, उभाभ्याम् ३, उभयोः २ । उभयशब्दस्यैकवचनबहुवचनयोः सर्वशब्दवद् रूपाणि ॥
मासनिशासनस्य शसादौ लुग्वा । २।१।१००॥ मास-निशा-आसन इत्येषां शसादौ स्यादौ परे लुगन्तादेशो वो भवति । मासः, मासान् , मासा, मासेन ॥
नाम सिदयव्यञ्जने । १।२।२१॥ सिति प्रत्यये यवजव्यञ्जनादौ च परे पूर्व नाम पदसंज्ञं भवति । माभ्याम् । मासाभ्याम् । सर्वविभक्तिषु वा लुगिति मते प्रथमैकवचनादावपि माः मासः ॥ ___ दन्तपादनासिकाहृदयामृग्यूषोदकदोर्यकृच्छकृतो दुत्पन्नस्हृदसन्यूषन्नुदन्दोषन्यकञ्शकन् वा । २।११ १०१॥ दन्त, पाद, नासिका, हृदय, असज् , यूष, उदक, दोस् , यकृत् , शकृत् , इत्येषां दशानां शब्दानां स्थाने शसादौ स्यादौ परे यथासंख्यं दत्, पद् , नस्, हृद् , असन्., गुषन् , उदन् , दोषन् , यकन् , शकन् , इत्येते दशादेशा १-षष्ठयाऽन्तस्येति परिभाषयेति बोध्यम् । २-लुगन्तादेशे पदसंज्ञायां रुत्वे अवर्णभो इति रोलुंकि रूपम् । ३-लुगन्तादेशे दीर्घड्याबिति सिलोपे रूत्वे विसर्गे च रूपम् । ..