________________
हैमनूतनलघुप्रक्रिया पूर्वादिभ्यो नवभ्यो जसूङसिङीनां यथासंख्यं इ-स्मात् स्मिन् इत्यादेशा वा भवन्ति । पूर्वे, पूर्वाः । पूर्वस्मात् , पूर्वस्माद्, पूर्वात् , पूर्वाद् । पूर्वस्मिन्, पूर्वे । पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, स्त्र, अन्तर इति नव पूर्वादयः । शेषं सर्ववत् । एवं परादीनामपि ॥
नेमार्धप्रथमचरमतयायाल्पकतिपयस्य वा ।१।४। १०॥ नेमादीनाम् अकारान्तानां सम्बन्धिनो जसः स्थाने इर्वा भवति । नेमे नेमाः। शेषं सर्ववत् । तयायौ प्रत्ययौ । ततस्तदन्ता ग्राह्याः । द्वितये, द्वितयाः। त्रितये, त्रितयाः। द्वये, द्वयाः, त्रये, त्रयाः । शेषं देववत् ॥
द्वन्दे वा ।१।४।११॥ द्वन्द्वसमासे वर्तमानस्याकारान्तस्य सर्वादेः सम्बन्धिनो जसः स्थाने इयं भवति । पूर्वोत्तरे, पूर्वोत्तराः ॥
न सर्वादिः ।१४।१२॥ द्वन्द्व समासे सर्वादिः सर्वादिर्न भवति । पूर्वोत्तराय । शेषं देववत् ॥
तीयं डिस्कार्ये वा। १।४।१४॥ तीयप्रत्ययान्तं नाम
सिङसङीनां कार्ये कर्तव्ये वा सर्वादिर्भवति। द्वितीयस्मै, द्वितीयाय । द्वितीयस्मात् , द्वितीयस्माद् , द्वितीयात् ,
१-द्वावयवावस्येत्यर्थे तयप्रत्ययः । एवं त्रितय इत्यत्रापि । द्वय इत्यत्र त्वय
प्रत्ययः । एवं त्रयः ।