________________
हैमनूतनलघुप्रक्रिया
४८७ सुभ्वादिभ्यः ७३१८२॥ सुभ्वादिभ्यः कच् न. भवति । शोभने भ्रवावस्याः सुभ्रः । जातिवचनादुङ् । आकृतिगणोऽयम् ॥ इति बहुव्रीहिसमासप्रकरणम् ॥
॥अथाऽव्ययीभावसमासप्रकरणम् ॥ तत्रादाय मिथस्तेन प्रहृत्येति सरूपेण युद्धेऽ• व्ययी भावः ।।१।२६॥ सप्तम्यन्तं नाम मिथ आदा. येति क्रियाव्यतिहारे, तृतीयान्तं नाम मिथः प्रहत्येति क्रियाव्यतिहारे समानरूपेण नाम्ना युद्धविषयेऽन्यपदार्थ समस्यते स च समासोऽव्ययीभावसंज्ञको भवति ।
इच् युद्धे ।७।३।७४॥ युद्धे यः समासो विहितस्तस्मादिच् समासान्तो भवति ॥ .
इच्यस्वरे दीर्घ आच्च ।३।२१७२॥ इच् प्रत्ययान्ते अस्वरादावुत्तरपदे परे पूर्वपदस्य दीर्घ आकारश्चाऽन्तादेशो भवति । दीर्घत्वात्वयोरकारान्तादन्यत्र विशेषः । दीर्घसाहचर्यादात्वमपि स्वरान्तानामेव । “स्वरस्य हूस्वदीर्घप्लुताः" ॥
अनतो लुप् ।३।२।॥ अकारान्तं वर्जयित्वाऽन्यस्याव्ययीभावस्य सम्बन्धिनः स्यादेर्लुम् भवति । केशेषु च केशेषु च मिथो गृहीत्वा यद् युद्धं तत् केशाकेशि, वाहौ च बाहौ च गृहीत्वा कृतं युद्धं बाहूबाहवि । बाहाबाहवि । १-अवर्णवर्णस्येत्यलोपः, स्यादेर्लुप् । केश सुप् केश सुबित्यलौकिकविग्रहे समासे समासान्ते चैकार्थे इति स्यादिलुक् । २-अस्वयम्भुव इत्यव् ।