________________
४८८
हैमनूतनलघुप्रक्रिया दण्डैश्च दण्डैश्च मिथः प्रहत्य कृतं युद्धं दण्डादण्डि, यष्टायष्टि, यष्टीयष्टि ॥
पारे मध्येऽग्रेऽन्तः षष्ठ्या वा ।३।१॥३०॥ पारप्रभृतीनि नामानि षष्ठ्यन्तेन नाम्ना सह पूर्वपदार्थे समस्यन्ते, स च समासोऽव्ययीभावसंज्ञको भवति तत्सभियोगे च पारादीनां त्रयाणामेकारान्तता निपात्यते । पारं गङ्गायाः पारेगङ्गम , पारं जलस्य पारेजलम् , मध्यं गङ्गाया मध्येगङ्गम् , मध्येसमुद्रम् ।।
निष्पाग्रेऽन्तः खदिर-कार्याऽऽम्र-शरेक्षु-प्लक्षपीयूक्षाभ्यो वनस्य ।२।३।६६॥ निस् प्र अग्रे अन्तर् खदिर कार्य आम्र शर इक्षु प्लक्ष पीयूक्षा इत्येतेभ्यः परस्य वनशब्दनकारस्य णकारादेशो भवति । अग्रं वनस्य अग्रेवणम् , अग्रसेनम् ॥ . गिरिनदीपौर्णमास्याग्रहायण्यपञ्चमवर्याद्वा ।। ३९०॥ गिरि नदी पौर्णमासी आग्रहायणी इत्येतच्छब्दाद, पञ्चमरहिता ये वास्तदन्ताच्चाऽव्ययीभावात्समासादत्समासान्तो वा भवति ॥
३-" द्वन्द्वैकत्वाऽव्ययीभावावि "ति क्लीबतानुशासनात्क्लीबे इति ह्रस्वः । अमव्ययीभावेति स्यादेरम् । प्रथमोक्तं प्राक् । गङ्गा उस् पारे सीत्यलौकिकविग्रहः ।