SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ हैमनूतन लघुप्रक्रिया धर्मादिषूत्तरपदेषु सादेशो भवति । समानो धर्मोऽय सर्मा । स एव साधर्मिकः ॥ ૪૮૩ इनः कच् ।७।३।१७० || इन्नन्ताद् बहुव्रीहेः स्त्रियां वर्त्तमानात् कच् प्रत्ययः समासान्तो भवति । बहवो दण्डिनोऽस्यां बहुदण्डिकी नगरी । अस्त्रियां शेषाद्वेति कच् । हुण्डी, बहुदण्डिको ग्रामः ॥ ऋन्नित्यदितः | ७|३|१७१ ॥ ऋकारान्ताद् नित्यं दित = देप्रभृतिरादेशो यस्मात्तदन्ताच्च बहुव्रीहेः कच् समासान्तो भवति । बहवः कर्त्तारो यस्य जिनजन्मोत्सवः || स बहुकर्तृको - यादीदूतः के | २|४|१०४ || ङीप्रत्ययस्य आकारेकारोकाराणां च के प्रत्यये ह्रस्वो भवति । इति प्राप्ते न च |२|४|१०४ ॥ ङ्यादीदूतः कचि प्रत्यये परे ह्रस्वो न भवति । बह्वचः कुमार्यो यस्मिन् बहुकुमारीको ग्रामः । एवं बहुनदीको बहुवधूक इत्यादि ॥ दध्युरः सर्पिर्मधूपानच्छालेः | ७|३|१७२ || दधि उरस् सर्पिस मधु उपानह् शालि इत्येतदन्ताद् बहुव्रीहेः कच् समासान्तो भवति । प्रियदधिकः ॥ ३ - अन्, अवर्णेवर्णस्येत्यलुक् । सौ नि दीर्घः । पदत्वे नाम्नो न इति न लुक्, स्त्रियामाप् । ४ - कचि नामसिदिति ५ - परतः स्त्रीति पुंवत् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy