SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया भवति । शोभनौ पादावस्य सुपात् । द्वौ पादावस्य द्विपात् । यस्वरे पादः पदणिक्यघुटि ।२।१।१०२॥ पादन्तस्य नाम्नो णिक्यघुड्वजिते यकारादौ स्वरादौ च प्रत्यये परे पदित्ययमादेशो भवति । स्त्रियां सुपदी सुपात् । एवमन्यत्र ॥ वयसि दन्तस्य दत ७।३।१५१॥ सुपूर्वस्य संख्यापूर्वस्य च बहुव्रीहौ वयसि गम्यमाने दन्तशब्दस्य दत इत्ययमादेशः समासान्तो भवति । ऋकार इत् याद्यर्थः। सुजाता दन्ता अस्य सुदैन् बालः, सुदंती कुमारी । एवं द्विदन् , द्विदती ॥ जायाया जानिः ७३।१६४॥ जायाशब्दस्य बहुव्रीहौ जानिरित्ययमादेशः समासान्तो भवति । युवतिर्जाया यस्य युवजानिः। भूाया यस्य भूजानिः॥ स्त्रियाभूधसो न् ।७।३।१६९॥ ऊधस् शब्दस्य बहुव्रीहौ स्त्रियां नकारादेशः समासान्तो भवति । 'षष्ठ्या अन्तस्य' । कुण्ड मिव ऊधोऽस्याः कुण्डोध्नी । घटोनी ॥ समानस्य धर्मादिषु ।३।२।१४९॥ समानन्दस्य ३-वा पाद इति वा ङीः । ४-ऋदुदित इति नोन्तः । सिलीषः, संयोगान्तलोपः। ५-अधातूदित इति डीः । १-पुंक्त् । नामसिदिति पदत्वान्नाम्नो न इति नकारलुक् । २-अन्त्यस्य नकारादेशः । स्त्रियां • नृत इति डीः । अनोऽस्येत्यलुक् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy