SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ૪૮૨ प्रजाया असू |७|३|१३७ ।। नञ् सुदुर्भ्यः परो यः प्रजाशब्दस्तदन्ताद्बहुवरिस् समासान्तो भवति । न- अविद्यमाना प्रजा अस्य अप्रजाः, अप्रजसौ, । सुप्रजाः, दुष्प्रजाः ॥ मन्दारपाच्च मेधायाः | ७|३|१३८ || मन्द अल्प इत्येताभ्यां नवादिभ्यश्च परो यो मेधाशब्दस्तदन्ताद् बहुव्रीहेरस् समासान्तो भवति । मन्दा मेधाऽस्य मन्दमेधाः, अल्पमेधाः । एवममेधा इत्यादि ॥ द्विपदाद् धर्मादन् | ७|३ | १४१ || धर्मशब्दान्ताद् द्विपदाद् बहुव्रीहेरन् समासान्तो भवति । साधूनां धर्मः साधुधर्मः, साधुधर्म इव धर्मोsस्य साधुधर्मा । स धर्मोऽस्य तद्धर्मा । तद्धर्म इत्यादौ तु मतान्तरेण विकल्पः । द्विपदादिति किम् ? परमः स्त्रो धर्मोऽस्य परमस्वधर्मकः || सुप्रत्युत्सुरभेर्गन्धादिद् गुणे | ७|३|१४४ ॥ सुपूति उत् सुरभि इत्येतेभ्यः परो यो गन्धशब्दो गुणे वर्तते तदन्ताद्बहुव्रीहेरित् समासान्तो भवति । शोभनो गन्धो गुणोऽस्य सुगन्धिं चन्दनम् । स्वादिभ्य इति किम् ? तीव्रो गन्धोऽस्य, तीव्रगन्धं हिङ्गु । गुण इति किम् ? ३ - गोश्वान्त इति ह्रस्वः, अवर्णेवर्णेत्यकारलोपः । सौ अभ्वादेरिति दीर्घः । ४- निर्दुरिति षः । ५ - परतः स्त्रीति पुंवत् । ६-उष्ट्रैर्मुखादिसमासः । अवर्णेवर्णेत्यलोपः सौ निदीर्घः । ७ शेषाद्वति क । ८ - अवर्णे वर्णेत्यलोपः । ३१
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy