________________
हैमनूतनलघुप्रक्रिया समासान्तो भवति ॥
नबत् ।३।२।१२५॥ नञ् शब्द उत्तरपदे परे अकारो भवति । न-अविद्यमानानि चत्वारि यस्य सोऽचतुरः । सुशोभनानि, वि-विगतानि, चत्वारि यस्य स सुचतुरो विचतुरः। उप-समीपे चत्वारो येषां ते उपचतुराः । त्रयो वा चत्वारो घा त्रिचतुराः।
न सु दुर्व्यः सक्तिसक्थिहलेर्वा ३३१३६॥ नञ् सु दुर् इत्येतेभ्यः परे ये सक्ति सक्थिहलिशब्दास्तदन्ताद् बहुव्रीहेरप् समासान्तो भवति वा । सञ्जनं सक्तिः। न-अविद्यमाना सक्तिरस्य असक्तः, असक्तिः, मुशोभना सक्तिरस्य सुसक्तः, सुसक्तिः। दुर्-दुर्गता कष्टा वा सक्तिरस्य दुःसक्तो दुःसक्तिः । एवमसक्थोऽहल इत्यादि ।
सक्थ्यक्ष्णः स्वाङ्गे १७३।१२६॥ स्वाङ्गवाची यः सक्थिशब्दोऽक्षिशब्दश्च तदन्ताद् बहुव्रीहे: टः समासान्तो भवति । दीर्घ सक्थि यस्य दीर्घसक्थः। विशाले अक्षिणी यस्याः सा विशालाक्षी । पङ्कजसदृशे अक्षिणी यस्याः पकजाक्षी।
७-उष्ट्रमुखादिसमासः । ८-एकार्थमिति समासः। ९-उष्ट्रमुखादि- समासः। १०-सुज्वार्थ इति समासः । ११-उष्ट्रमुखादि समासः । अव
णेतीकारलोफः । समासान्तस्तद्धिताधिकारः। १२- एकार्थमिति समासः। १-अवर्णेतीकारलोपः । २-अवर्णेतीकार लोपः, टित्त्वान्डी:, अस्य ड्या मित्यलोपः ।