________________
हैमनूतनलघुप्रक्रिया लम्बौ को यस्य स लम्बकर्णः ।। ___ जातिकालसुखादे वा ।३।१।१५२॥ जातिवाचिभ्यः कालवाचिभ्यः सुखादिभ्यश्च शब्दरूपेभ्यो बहुव्रीहौ क्तान्तं पूर्व वा निपतति । पाणिः गृहीतोऽस्याः पाणिग्रहीती, गृहीतपाणिः । कृतः कटोऽनेन कृतकटः कटकृतः । कटव्यक्तिविवक्षायां तु 'क्ता' इत्यनेन कृतकट इत्येव । मासो यातोऽस्या मासयाता, यातमासा । गतं वर्षमस्य गतवर्षः, वर्षगतः । मुखं यातमस्या यातसुखा, सुखयाता, दुःखहीना, हीनदुःखा ॥
आहितारन्यादिषु ।३।१।१५३॥ आहिताग्न्यादिषु बहुव्रीहिसमासेषु क्तान्तं पूर्व वा निपतति । आहितोऽग्निर्येन.. स आहिताग्निः, अग्न्याहितः। दन्तजातः जातदन्तः । गतार्थः, अर्थगतः । आकृतिगणोऽयम् ॥
प्रहरणात् ।३।१।१५४॥प्रहरणवाचिनः शब्दात् क्तान्तं बहुव्रीहौ पूर्व वा निपतति । उद्यतोऽसिरनेन उद्यतासिः, अस्युद्यतः ॥
धनुषो धन्वन् ।७।३।१५८॥ धनुःशब्दस्य बहुवीही धन्वन् इत्ययमादेशः समासान्तो वा भवति । आकृष्टं धनुर-- नेन आकृष्टधन्वा, धनुराकृष्टः। किं धनुरस्य शायदा ।।। ५-विशेषणस्य प्राक्प्रयोगः । ६-पाणिग्रहीतीति डीः । ७-स्त्रियामाप् । १-समासात्सौ नि दीर्घः । सिलोपनलोपौ । २-सेः स्थानिवद्भावात्पदत्वे रुः । ३-विशेषणस्य पूर्वनिपातः । शृङ्गस्य विकारः शार्शम् ।।