________________
४७६
हैमनूतनलघुप्रक्रिया स सकर्मकः । सह विद्यया वर्तते यः स सविद्यः॥
नाऽऽशिष्यगोवत्सहले ३।२।१४८॥ आशिषि गम्यमानायां गवादिवजित उत्तरपदे परे सहशब्दस्य सादेशो न भवति । भद्रं सहसङ्घायाऽऽचार्याय । स्वस्ति गुरवे सहशिष्याय । अत्र न भवति-स्वस्ति भवते सगवे सहगवे सवत्साय सहवत्साय सहलाय सहहलाय ॥
दिशो रूढ्यान्तराले ।३।१।२५॥ रूढ्या दिशः सम्बन्धि नाम रूढ्यैव दिशः सम्बन्धिना नाम्नाऽन्तरालेऽन्यपदार्थे वाच्ये समस्यते, स समाप्तो बहुव्रीहिसंज्ञो भवति ।।
दचिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं सा दक्षिणपूर्वा । प्रतिषेधविषयेऽपि-सर्वा प्रियाऽस्य सर्वप्रियः। प्रियादिवात्प्रतिषेधः प्राप्तः । पूर्वाशब्दस्य प्रथमोक्तत्वं पूर्वदक्षिणा दिक् । सर्वा शुक्ला यस्य सर्वशुक्लः । द्वे कृष्णे यस्य द्विकृष्णः। यत्राऽन्यपदार्थस्यैकदेशो विशेषणतया ज्ञायते स तद्गुणसंविज्ञानो बहुव्रीहिरन्योऽतद्गुणसंविज्ञानः।
४-शेषादिति कचि नामसिदिति पदसंज्ञायां नाम्नो न इति न लोपः। ५-गोश्चान्ते इति ह्रस्वः। १-गोश्वान्ते इति इस्वः । चतुर्थंकवचनम् । २-सर्वादय इतिपुंवत् गोश्चान्ते इति इस्वः । ततः स्त्रियामाप् । उभयोः सर्वादित्वाद् यथेष्टं पूर्वनिपातः । ३-गोश्चान्त इति ह्रस्वः । ४-संख्यायाः पूर्वप्रयोगः ।