SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया सदृशं स्थानमस्य पितृस्थानः । मातरीय स्थानीयमस्यां सा मातृस्थानीया । समासेनोक्तार्थत्वादिव शब्दाप्रयोगः । अमूर्धमस्तकात् स्वाङ्गादकामे ।१२।२२॥ मूर्धमस्तकशब्दवर्जितात् स्वाङ्गवाचिनोऽदन्ताद्वथञ्जनान्ताच्च शब्दात् परस्याः सप्तम्याः कामशब्दादन्यस्मिन्नुत्तरपदे घरे लुप् न भवति । कण्ठे स्थितः कालोऽस्य कण्ठेकालः । अकाम इति किम् ? मुखे कामोऽस्य मुखकामः । बहुलाधिकारात् करे कमलं करकमलमित्यादि । केशसंघातश्चूडाऽस्य केशचूडः केशसंघातचूडः । प्रपतितानि पर्णान्यस्य प्रपर्णः प्रपतिपर्णः। अविद्यमानः पुत्रोऽस्य अपुत्रः, अविद्यमानपुत्रः । एषु बहुव्रीहिषु संघातादेमध्यमपदस्य लोपः । आकृतिगणोऽयम् ॥ सहस्तेन ।३।१।२४॥ सह इत्येतनाम तुल्ययोगे विद्यमानार्थे च वर्तमानं तृतीयान्तेन नाम्नाऽन्यपदार्थे समस्यते, स बहुव्रीहिः। सहस्थ सोऽन्यार्थे ।३।२।१४३॥ अन्यपदार्थे, बहुप्रीही समासे उत्तरपदे परे सहशब्दस्य स इत्ययमादेशो भवति वा। तुल्पयोगे-सह पुत्रेण यः स सैपुत्रः पिता आगतः। आगमनमुभयोस्तुल्यम् । विद्यमानाये सह कर्मणा वर्तते यः ३-पुत्र टा सहेत्यत्र समासः, प्रथमोक्तत्वात्सहस्य श्राक्प्रयोगे सादेशः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy