________________
४७४
हैमनूतनलघुप्रक्रिया
सप्तम्यन्तस्य 'न सप्तमी' त्यादिना प्राकप्रयोगनिषेधाद् व्यधिकरण बहुव्रीहिमप्यते । आरूढा बहवो वानरा यं स आरूढबहुवानरो वृक्षः। परत्वात् क्तान्तस्य पूर्वनिपातः ।
नाप्रियादौ ।३।२।५३॥ पूरण्यप्प्रत्ययान्ते स्त्र्येकार्थे उत्तरपदे प्रियादौ च परे परतः स्त्री पुंबन भवति । पञ्च कुमार्यः प्रिया अस्य पञ्चकुमारी प्रियः। अव्ययम्उच्चैर्मुखमस्य उच्चैमुखः, अन्तरङ्गान्यस्य अन्तरङ्गः ।
तुमश्च मन:कामे ।।२।१४०॥ तुम् प्रत्ययान्तस्य सम् शब्दस्य च प्रत्येकं मनसि कामे चोत्ररपदे लुगन्तादेशो भवति । कतुं कामोऽस्य कर्तु कामः। गन्तुं मनोऽस्य गन्तुमैनाः। अस्ति क्षीरमस्या अस्तिशीरा गौः।
उष्ट्रमुखादयः ।।१।२३॥ उष्ट्रमुखादयो बहुलं बहुव्रीहिसमासा निपात्यन्ते । उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः । वृषस्कन्ध इव स्कन्धोऽस्य वृषस्कन्धः । हंसगमनमिव गमनमस्या हंसगमना । चन्द्रसदृशं मुखं यस्याः सा चन्द्रमुखी । बिम्बसदृशावोष्ठौ यस्याः सा बिम्बोष्ठी। पित. ३-जसःस्थानिवत्त्वात्पदसंज्ञायां नाम्नो न इति नलोपः । ४-अध्ययस्य स्याद्यन्तत्वं प्रागुक्तमेव । अत्र 'अतोऽती' ति न, रोरभावात् । ५-तुमश्चेति तुमो मकारस्व लुक् , अभ्वादेरिति दीर्घः । ६-अस्तीति विभक्त्यन्ताभमन्ययम् । १-सदृशशब्दलोपः । नखमुखादिति ङीः।। २-वौष्ठौतावित्यसक् । नासिकोदौष्ठेति ङीः ।