________________
हैमनूतनलघुप्रक्रिया
४७३
क्ताः | ३|१|१५१ ॥ क्तप्रत्ययान्तं बहुव्रीहौ पूर्वं निपतति । आरूढा वानरा यं स आरूढवानरो वृक्षः । कृतः कटोsनेन कृतकटः, उपहृतो वलिरस्यै इत्युपहतवलिर्यक्षी । भीतः शत्रुर्यस्मात् स भीतशत्रुर्नृपः ।
गोश्चान्ते ह्रस्वोsनंशिसमासेयो बहुव्रीहौ | २|४| ९६ ॥ गौersary गोशब्दस्य ज्याद्यन्तस्य च नाम्नोऽन्ते वर्त्तमानस्य ह्रस्वो भवति न चेदसावंशिसमासान्त ईयस्वन्तबहुव्रीह्यन्तो वा भवति ।
परतः स्त्री पुंवत् त्र्येकार्थेऽनू | ३ |२|४९ || परतः = विशेष्यवशाद् यः शब्दः स्त्रीलिङ्गः स स्त्रियां वर्त्तमाने समानाधिकरणे उत्तरपदे परे पुंवद् भवति, न चेदुङन्तो भवति ॥
विशेषण सर्वादिसंख्यं बहुव्रीहौ | ३|१|१५०॥ विशेषणवाचि सर्वादि संख्यावाचि च नाम बहुव्रीहौ पूर्व निपतति । चित्रा गावो यस्य स चित्रगुः ॥
शेषाद्वा | ७|३|१७५ || यस्माद् बहुव्रीहेः समासान्तः प्रत्यय आदेशो वा न विहितः स शेष इह, तस्माच्छेषात्कच् प्रत्ययः समासान्तो वा भवति । वीराः पुरुषाः सन्त्य - स्मिन् स वीरपुरुषको ग्रामः । कटे कृतमनेन स कृतंकटः । १ - चित्रा जसू गो जस् इत्यलौकिक विग्रहः । विशेषणस्य प्राक्प्रयोगः पुंबदुभावो ह्रस्वश्व काबू | २ - क्तान्तस्य पूर्वनिपातः ।