SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ४७२. हैमनूतनलघुप्रक्रिया वर्तमानेन संख्यायाचिना नाममा सहकार्य समाससंझं बहुव्रीहिसंज्ञं च भवति । सुचोऽर्थों वारः, वार्थों विकल्प: संशयो वा ॥ प्रमाणीसंख्याड्डः ।७।३।१२८॥ प्रमाणीशब्दान्तासंख्यावाचिशब्दान्ताच्च बहुव्रीहेर्डः समासान्तः प्रत्ययो भवति । द्विर्दश द्विदशाः। द्विविंशतिद्विविंशाः। वारार्थे समास इत्युक्तार्थत्वादुक्तार्थानामप्रयोग' इति मुचो न प्रयोगः ॥ __ संख्या समासे ।३।१।१६३॥ समासमात्रे सख्यावाचिनाम अनुपूर्व पूर्व निपतति । अल्पसंख्यायाः पूर्वप्रयोगार्थ सूत्रम् । द्वौ वा त्रयो वा द्वित्राः, पञ्च वा पडू वा पञ्चषाः ॥ एकार्थ चाऽनेकं च ।३।१।२२॥ एकार्थ समानाधिकरणम् । एकमने चैकार्थ नाम अव्ययं च नाम्ना द्वितीयाद्यन्तस्याऽन्यस्य पदस्यार्थे समस्यते स च समासो बहुव्रीहिसंज्ञको भवति । स्याद्यन्तानां समास इति प्राग् वर्णितम् । 'अव्ययस्येति लुविधानादव्ययेभ्योऽपि स्यादिप्यिते इति स्याद्यन्तता तेषां बोध्या। बहुव्रीहेरन्यपदार्थस्य प्रधानत्वात्तल्लिङ्गसंख्याविभक्तयः । २-द्वि औ दशन् जसित्यलौकिकविग्रहः । समासे डः प्रत्ययः समासान्तः, द्विशन्दस्य प्रथमोक्तत्वात्प्राक्प्रयोगः । स्यादिलुक् , डित्यन्त्यस्वरादिलोपः, बहुवचने जस् । ३-विंशतेरिति तिशब्दलोपः । ४-डित्त्वाद् इकारलोपः । ५-डित्यन्त्यस्वरादिलोपः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy