________________
हैमन्तनलघुप्रक्रिया न बहुव्रीह्यादिसंज्ञाऽस्य । तेनायं केवलसमास इति नामसमास इति समास इत्येव वोच्यते । समासः पुनर्दिविधो नित्योऽनित्यश्च । अविग्रहोऽस्वपदविग्रहो वा नित्यसमासः, स्वपदविग्रहस्त्वनित्यः ॥ .
प्रथमोक्तं प्राक् ।।१।१४८॥ अत्र समासप्रकरणे समासविधायकसूत्रे यत्प्रथमान्तेन पदेनोक्तं तत्पूर्व निपतति । विस्पष्टं पटुः-विस्पष्टपटुः। पूर्व भूतो भूतपूर्वः। कृतः पूर्वमनेनेति कृतपूर्वी कटम् ॥ -
इति नामसमासप्रकरणम् ॥ अथ बहुव्रीहि समास प्रकरणम् ॥ सुज्वार्थे संख्या सङ्ख्येये संख्यया बहुव्रीहिः ॥३॥१॥१९॥ सुज्वार्थे वर्तमान संख्यावाचि नाम 'संख्येये १-विस्पष्टं पटुरिति लौकिकविग्रहः, अत्रैव समाससंज्ञा, विस्पष्ट अमिति विभक्त्यन्तनाम्नः पटु सि इति विभक्त्यन्त नाम्ना। अत्र समाससूत्रे नामेति प्रथमोक्तम् , नामत्वं चोभयत्र, तथापि शिष्टप्रयोगमनुसृत्य विस्पष्ट अमित्येव प्रथमान्तनामपदेन गृह्यते इति प्रथमोक्ततया तस्यैव पूर्वनिपातः, तत ऐकायें इति स्यादिलुप् । समासस्याधातुविभक्तिवाक्यत्वेन नामसंज्ञा, ततः स्यादिः । एवमग्रेऽपि । २-अत्र भूतशब्दस्य पूर्वनिपातः । ३-कृत सि पूर्व अमित्यलौकिक विग्रहे अनेनेति तद्धितार्थे समासः, कृतशब्दस्य पूर्वनिपातः, स्यादिलुक, तत इन् प्रत्ययः । ४-'नाम नाम्ने' ति सूत्रेण विहितस्वादयं समासो नामसमास इत्युच्यते। १-संख्यावत्यर्थे ।