________________
.४७०
-
___ हैममूलपक्रिया ____ऐकार्थे ।३।२शक्षा कार्यमैकपद्यम् । तनिमित्तस्य यादेल' भवति । ऐकार्थ्यमलौकिकविग्रहवाक्ये भवति । वृत्तिश्चतुर्धा-समासः कृत् तद्धितो नामधातुश्च । वृत्तिसमानार्थ वाक्यं विग्रहः, स द्विविधः-लौकिकोऽलौकिकश्च । प्रयोगाहों लौकिकः, यथा-राज्ञः पुरुष इत्यादिः। प्रयोगानों ऽलौकिकः, यथा-राजन् ङस् पुरुष सि -इत्यादिः। तवालौक्रिकविग्रहवाक्ये एकार्थतायां सत्यां समाससंज्ञा, ततः समासशास्त्रे प्रथमानिर्दिष्टस्य पूर्वप्रयोगः, ततः समासान्तः प्रत्ययः, ततोऽनेन स्यादिलबिति चोध्यम् । अनेन लुथविधानाऽन्यथानुपपत्त्या समासशास्त्रे 'नाम नाम्ने' स्युक्तावपि विभक्त्यन्तानामेव समासो विज्ञायते । यस्मिन् स्यादौ सत्येकार्थता स स्मादिरैकार्थ्यनिमित्तम् । समासाज्जायमानस्तु स्यादिकार्थतानिमित्तमिति राजपुरुषादिनाम्नो जातस्य स्याहेर्न लुप् । अनाम्नोऽप्यनाम्नाऽपि समासः क्वचिद् बहुवचनाद् बोध्यः। समासः पोढा - बहुव्रीहिरव्ययीभावस्तत्पुरुषः कर्मधारयो द्विगुर्द्वन्द्वश्च । तत्र प्रायेणाऽन्यपदार्थप्रधानो बहुव्रीहिः । प्रायेण पूर्वपदार्थप्रधानोऽव्ययीभावः । प्रायेणोचरपदार्थप्रधानस्तत्पुरुषः कर्मधारयो द्विगुश्च, येणोभयपदार्थप्रधानो द्वन् । नाम माम्नेतिविहितः समासोऽप्युबरपदार्थप्रधान एव । बबीमादिक्षणामावेऽसमास इति