________________
हैमनूतनलघुप्रक्रिया
॥ अथ समासप्रकरणम् ॥
यत्र न
समर्थः पदविधिः |७|४|१२२|| पदसम्बन्धी विधिः पदविधिः, तेन पदात् पदे पदस्य पदयोः पदानां वा यो विधिः स सर्वः पदविधिः । स यदा समर्थपदसम्बन्धी भवति तदा समर्थो भवति । सर्वः पदविधिः समर्थो भवति । समर्थानां पदानामेव पदसम्बन्धी विधिर्भवतीत्यर्थः । पदविधिश्व समास- नामधातु कृत्-तद्धितोपपदविभक्ति - युष्मदस्मदादेश - प्लुतरूपो भवति । सामर्थ्य तत्र न समासादिः पदविधिः । सामर्थ्य व्यपेक्षा एकार्थीभावश्च । वाक्ये पदानां परस्पराकाङ्वालक्षणा व्यपेक्षा, वृत्तौ समासादौ एकार्थीभावः, यत्र समुदायार्थो मुख्योऽवयवार्थ उपसर्जनीभूतो निवृत्तो वा भवति । एवं च पृथगर्थानां पदानामेकार्थबोधकत्वमेकार्थीभावः । स च समासकृत्तद्धितनामधातुषु । वाक्ये उपपद - विभक्त्यादौ च व्यपेक्षैवेति ॥
४६९
नाम नाम्नैकार्थ्ये समासो बहुलम् | ३|१|१८ ॥ नाम नाम्ना सबै कार्ये एकार्थीभावे सति समाससंज्ञं स्याद् बहुलम् । अधिकार-सूत्रमिदम् । तेन सर्वः समासो नाम्नो नाम्नैकायै सति भवति । विधिसूत्रं चेदम् । तेन यत्रैकार्थता दृश्यते, तत्र बहुव्रीह्यादिसंज्ञाया अप्राप्तावनेन समासो बोध्यः । समासफलं चैकपद्यम् ॥ --