SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया रान्तान्मनुष्यजातिवाचिनोऽप्राणिजातिवाचिनश्च नाम्नः स्त्रियामूङ्प्रत्ययो भवति युशब्दान्तं रज्ज्वादींश्च वर्जयित्वा । कुरूंः, इक्ष्वाकूः । अलाबूः, कर्कन्धूः । उत इति किम् ? विट् । अप्राणिनचेति किम् ? आखुः । जातेरित्येव, पटुः । अयुरज्जवादिभ्य इति किम् ? अध्वर्युः स्त्री । चरणत्वाज्जातिः । रज्जुः हनुः ॥ ૪૬૮ उपमान सहित संहित सहशफवामलक्ष्मणाद्यूरोः १२।४।७५ || उपमानादिपूर्वपदाद्रुशब्दात् स्त्रियामूङ् प्रत्ययो भवति । करभ इव ऊरू यस्याः करभोरूः । सहितौ ऊरू यस्याः सहितोरूः । शफौ खुरौ ताविव संश्लिष्टत्वादुपचारात् शफोरूः । उपमानादेरिति किम् ? पीनोरूः ॥ - नारी सखी पगूः श्वश्रूः | २|४|७६ ।। एते शब्दाः स्त्रियां ङ्यन्ता ऊङन्ताश्च निपात्यन्ते । नृनस्योय नारा - देशः, नारी । सखिशब्दान्ङीः, सखी । पङ्गुशब्दादजातावूङ्, पङ्गः । श्वशुरशब्दादुङ्, उकाराकारलोपश्च श्वश्रूः ॥ यूनस्तिः | २|४|७७ || युवन् शब्दात् स्त्रियां तिः प्रत्ययो भवति । युवतिः । युवतीति तु यौतेः शत्रन्तात् स्त्रियामधातूeदित इति ङीप्रत्ययः । यौतेरौणादिककिदतिप्रत्ययान्तात्तु इतोऽक्त्यर्थादिति ङीः ॥ इति स्त्रीप्रत्ययप्रकरणम् २- समानदीर्घः । ३-नाम सिदितिपदसंज्ञायां नाम्नो न इति नलोपः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy