________________
हैमनूतनलघुप्रक्रिया पतिवन्यन्तर्वन्यो भार्यागभिण्योः ।२।४।५३॥ भार्याऽविधवा । तस्यामभिधेयायां पतिमच्छब्दान्डीरस्य च पतिवत्लादेशस्तथा गर्भिण्यां स्त्रियामभिधेयायामन्तर्वच्छन्दान्डीरस्य चाऽन्तर्वत्नादेशो निपात्यते ॥ पतिवत्नी अन्तर्वत्नी।
जातेरयान्तनित्यस्त्रीशूद्रात् ।।४५४॥ जातिवाचिनोऽकारान्तान्नाम्नः स्त्रियां डीभवति न चेत्तधान्तं नित्यस्त्रीजातिवाचि शूद्रशब्दो वा भवति ॥ "आकृतिग्रहणा जातिलिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्याशा गोत्रं च चरणैः सह ॥१॥ आकृतिः संस्थानं तव्यङ्ग्या जातिः कुक्कुटी शूकरीत्यादि । तटी, पात्री, घटी। अत्रिलिङ्गा एकस्यां व्यक्तौ पुत्रादौ कथनाद् व्यक्त्यन्तरे पित्रादौ कथनं विनैव सुग्रहा जाति:- ब्राह्मणी वृषली । गोत्रप्रत्ययान्त नाम जातिः नाडायनीत्यादि । वेदशाखावाचकं नाम जातिः कठीत्यादि । जातेरिति किम् ? मुण्डा, शुक्ला । अयान्तेति किम् ? इभ्या, क्षत्रिया। हयी, मत्सीत्यादयस्तु गौरादित्वात् । नित्यस्त्रीजातिवर्जन किम् ? मक्षिका, यूका, खट्वा शूद्रवर्जनात् शूद्रा । अकारान्तादेव, नेह आखुः॥
धवाद योगादपालकान्तात् ।२।४।५९॥ धवों भर्ता, तद्वाचिनोऽकारान्ताद् योगात्सम्बन्धात् स्त्रियां वर्तमानात् पालकान्तशब्दवर्जितान्नाम्नो डीभवति । प्रष्ठस्य भार्या