SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ N हैमनूतनलघुप्रक्रिया इति परिभाषितो गुण इह ग्राह्यः । सत्त्वे द्रव्ये, निविशते= तदेवाश्रयति यः, स गुण इति सम्बन्धः, एवमग्रेऽपि अपैति-द्रव्यादपगच्छति यः । यथाऽऽम्रानीलता पीतताया जातायाम् । पृथग्जातिषु-भिन्नजातीयेषु दृश्यते-उपलभ्यते यः, यथा घटपटादिषु नीलतादिः । एतैविशेषणैर्जातिन गुण इति फलति । आधेयः उत्पाद्यश्च यः यथा कुसुमादियोगाद् वस्त्रादौ गन्धः । अक्रियाजः नित्यो यः, यथा गगनादौ महत्त्वादिः। एवं च गुण उत्पायोऽनुत्पाद्यश्च । क्रिया तु न तथेति सा न गुणः । असत्त्वप्रकृतिः-द्रव्यस्वभावरहितः । तेन द्रव्यं न गुण इति बोध्यम् ॥ __ श्येतैतहरितभरतरोहितावर्णात्तो न च।२।४॥३६॥ श्येत-एत-हरित-भरत-रोहित-एभ्यो वर्णवाचिभ्यः स्त्रियां ङीर्वा भवति । तत्संनियोगे तकारस्य नकारश्च भवति । श्येनी, श्येतेत्यादि ॥ ____क्नः पलितासितात् ।।४।३७॥ पलितासिताभ्यां स्त्रियां कीर्वा भवति तत्संनियोगे तकारस्य क्नादेशश्च । पलिक्नी, पलिता, असिक्नी असिता ॥ असहनविद्यमानपूर्वपदात्स्वाङ्गादकोडादिभ्यः ।२।४।३८॥ सहनविद्यमानवर्जितं पूर्वपदं यत्स्वाङ्गं तदन्ताद क्रोडादिगण-वर्जितान्नाम्नोऽकारान्तात् स्त्रियां - डीळ भवति । पीनस्तनी, पीनस्तना। अतिक्रान्ता केशानतिकेशी, A
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy