________________
४६० हैमनूतनलघुप्रक्रिया
दिगोः समाहारात् ।२।४।२२॥ समाहारद्विगुसंज्ञकानाम्नोऽकारान्तात् स्त्रियां ङीर्भवति । पञ्चपूंली । त्रिफलेति त्वजादित्वात् ॥
इतोऽक्त्यर्थात् ।।४।३२॥ इकारान्तानाम्नः स्त्रियां गीर्वा भवति । न चेत्तत् क्त्यर्थप्रत्ययान्तं स्यात् । भूमी भूमिः, धूली, धूलिः रात्रिः, रात्री ॥ - पद्धतेः ।।४।३२॥ पद्धतिशब्दात् स्त्रियां डीर्वा भवति । पद्धती, पद्धतिः॥ .. __ शक्तेः शस्त्र ।२।४।३४॥ शक्तिशब्दाच्छस्त्रे स्त्रियां ङीर्वा भवति । शक्ती, शक्तिः । ... स्वरादुतो गुणादखरोः ।।४।३५॥ स्वरात्परो य उकार एकवर्णव्यवहितस्तदन्ताद् गुणवचनात् खरुवर्जितानाम्नः स्त्रियां डीर्वा भवति । पट्वी, पटुः । मृद्वी, मृदुः । लघी लघुः। विभ्वी, विभुः। एकवर्णव्यवहित इति किम् ? पाण्डुभूमिः । उत इति किम् ? श्वेता पटी। गुणादिति किम् ? आखुः स्त्री। चिकीर्षुः स्त्री । अखरोरिति किम् ? खरुरियम् । “सत्त्वे निविशतेऽपैति, पृथग्जातिषु दृश्यते । आधेयश्चाऽक्रियाजश्व, सोऽसत्त्वप्रकृतिगुणः॥१॥" - १६-पञ्चानां पूलानां समाहारः । १७-समानदीर्घः । १-खरुः पतिम्बरा कन्या ।