________________
हैमनूतनलघुप्रक्रिया
४५९.
अस्य ड्यां लुक् | २|४ | ८६ ।। ङीप्रत्यये परे पूर्व-स्याऽकारस्य लुग् भवति । गौरी, नदी, पुत्री, दासी ॥
मत्स्यस्य यः | २|४|८७ || मत्स्यशब्दसम्बन्धिनो यकारस्य यां लुगू भवति । मँत्सी ।
अणयेकण्नस्नटिताम् | २|४|२०|| अण्-अञ्-एय-इकण्-नञ्-स्नञ्-टितो दघ्नडादयः । एषां प्रत्य यानां योऽकारस्तदन्तान्नाम्नः खियां ङी र्भवति । औप-गैवी, कुम्भकारी, औत्सी, सौपर्णयी, प्रास्थिकी, श्रेणी, पौनी, " पञ्चैतयी, जानुदघ्नी, कुरुचरी ॥
वयस्यनन्त्ये | २|४|२१|| अनन्त्ये अचरमे वयसि वर्तमानादकारान्तान्नाम्नः स्त्रियां ङी र्भवति । प्राणिनां कालकृतावस्था वयः । कुमारी, किशोरी, तरुणी । चरमे तु - वृद्धा | बालेत्यादिस्त्वजादित्वात् ।
नवा शोणादेः | २|४|३१|| शोणादेर्गणात् स्त्रियां ङी र्भवति । शोणी, शोणा । कल्याणी, कल्याणा | वृत्रघ्नी, वृत्रों ।
३ - गौरादिः । ४- अपत्येऽण् । ५ - कर्मणोऽण् । ६ - अपत्येऽञ् । ७-अपत्ये एयण्। ८-क्रीते इकन् । ९ - अपत्यादौ नञ् । १० - अपत्यादौ स्नञ् । ११ - अवयवे तयट । १२- प्रमाणे दध्नट् । १३-चरेष्टः | १४-अनोऽस्येत्यलुकि ह्नो हनो ध्नः । १५ - सौ इन् हन्निति दीर्घः ।