________________
४६२
हैमनूतन प्रक्रिया
1
अतिकेशा । निष्क्रान्ता केशेभ्यो निष्केशी, निष्केशा यूका । देवडी, वडा वृश्चिका । असहन विद्यमानपूर्वपदादिति किम् ? सहकेशा, अशा, विद्यमानकेशा । स्वाङ्गादिति किम् ? - बहुयवा । अक्रोडादिभ्य इति किम् ? कल्याणी क्रोडा अस्याः कल्याणक्रोडा । भव्यभाला, सुभगा || "अविकारोsi मूर्ख, प्राणिस्थं स्वाङ्गमुच्यते । च्युतं च प्राणिनस्तत्तनिभं च प्रतिमादिषु ॥ १ ॥ अविकार इति किम् ? - बहुशोफा । भद्रवमिति किम् ? बहुकफा | मूर्त्तमिति किम् ? बहुज्ञाना । प्राणिस्थमिति किम् ? दीर्घमुखा शाला । च्युतं च प्राणिनस्तदिति किमर्थम् ? अप्राणिस्थादपि पूर्वोक्ताद्यथा स्यात् बहुकेशी बहुकेशा रथ्या । तन्निभं च प्रतिमादिष्विति किमर्थम् ? प्राणि स्थसदृशादपि पूर्वोक्ताद् यथास्यात् पृथुमुखी पृथुमुखा प्रतिमा ||
नासिकोदरौष्ठ जङ्घादन्त कर्णशङ्गाङ्गगात्र कण्ठात् १२|४|३९|| सहनविद्यमानपूर्वपदेभ्यो नासिकादिभ्यः
स्वाङ्गेभ्यो स्त्रियां ङीर्वा भवति । तुङ्गनासिकी, तुङ्गनासिका । कृशोदरी, कृशोदरा बिम्बोष्ठी, बिम्बोष्ठा । सहादिपूर्वपदात्तुसहनासिका, अनासिका, विद्यमाननासिका । पूर्वेण सिद्धे नियमार्थमिदम्, तेसाऽन्येभ्यो बहुस्वरेभ्यः संयोगोपान्ते
१- अडो वृश्चिकाद्यवयवविशेषः । २- अश्वानामुरः क्रोडा । ३ - ओखोपोरियम् ।