________________
घुन्तनप्रक्रिया
॥ अथ स्त्रीप्रत्ययप्रकरणम् ॥
अजादेः | २|४|१६|| अजादिभ्यः स्त्रियां वर्त्तमानेभ्य आप् प्रत्ययो भवति । अंजा, एडका, बाला, वत्सा, ज्येष्ठा, त्रिफला, शुद्रा ॥ सर्वा, या, सा, गङ्गा, खट्वेति आदिति आप् ।
४५७
अस्यायत्तत् क्षिपकादीनाम् | २|४|११|| यत्तद्क्षिपकादिवर्जस्य नाम्नो योऽकारस्तस्याऽनित्प्रत्ययावयवे ककार आप्परे परत इकारो भवति । कारिका, पाचिका ॥ यजादिवर्जनाद यका, सकी क्षिपका ॥
इच्चाsपुंसोऽनितत्र्यापरे | २|४|१०७ || आबेव परो यस्मान्न विभक्तिः स आप्परः अपुंलिङ्गार्थाच्छन्दाद्वितस्याप: स्थाने कारो ह्रस्वश्थ वा भवतः, अनकारानुबन्धस्य प्रत्ययस्यावयवभूते ककारे आप्परे परतः । अल्पा खट्वा खट्किा, खट्द्वका, खट्वाका । आवेव परो यस्मान्न विभक्तिरिति नियमादिह न प्रियखट्वाकमतिक्रान्ताऽतिप्रियखवका । अत्र हि द्वितीयायाः पर आप् ||
-
स्त्रियां नृतो स्वस्रादेर्डीः | २|४|१|| स्त्रियां वर्त्तमानाद् नकारान्ताद् ऋकारान्ताच्च नाम्नः स्वत्रादिवर्जिताद् ङीः
१ - आप समान दीर्घः, दीर्घड्याविति सिलोपः । २ - सर्वादित्वादकि सौ त्यदाद्यत्वेऽकारलुकि आपू, यदादिवर्जनान्नेत्त्वम् । ३-तः सौ सः ।